-कुलदीपमैन्दोला। उत्तराखण्ड।
कोटद्वारविधानसभाया: क्षेत्रसंबंधितानां कृते मुख्यमन्त्रिणा श्रीपुष्करधामीवर्येण सह विधायिका रितुभूषण खण्डूरी विभिन्नविषयसन्दर्भे मिलितवती । अवसरेस्मिन् विशेषरूपेण अग्निपथयोजनान्तर्गतं 19 अगस्तत: उत्तराखण्डे सम्भाव्यमानाया: अग्निवीरसेवाभ्यर्थीप्रक्रियाया: शुभारम्भ: कोटद्वारत: संजायते इति वार्ता विधानसभाध्यक्षया प्रोक्तं।
खण्डूरीवर्यया कोटद्वारक्षेत्रे पुरातनपेयजलनलिका- -पंक्तिपरिवर्तयितुं च कृषीणां भूमिनां चक्ष आवासीयभवनानाम् उपरिष्टात् 11च 32 केवी उच्चतरतारपंक्तिं परिवर्तयितुं सिंचनकुल्यानां पुनर्सज्जीकरणार्थं एवं च नवकुल्यानां निर्माणार्थं , मुख्ययानमार्गाणां निर्माणार्थं, कलालघाटीस्थिते राजकीय-इंटर-कॉलेज इत्यस्य नाम शहीदलांसनायक: धनवीरसिंहराणा इति कर्तुं चान्य महत्वपूर्णसन्दर्भे समस्यासमाधानविषये वार्ता कृता ।