ज्ञानं संस्थाप्य शिष्येषु महान्तो गुरवस्सदा ।
भवन्ति सदृशो देवैस्तस्मै श्रीगुरवे नम: ।।१।।
छात्रेभ्यो दीयते ज्ञानञ्जगति गुरुणा सदा ।
गुरोर्विना कथञ्ज्ञानन्तस्मै श्रीगुरवे नम:।।२।।
जीवनं शोभते ज्ञानैर्ज्ञानञ्च गुरुभिस्सदा।
ज्ञानं विना न सम्मानन्तस्मै श्रीगुरवे नमः।।३।।
गुरवे रोचते छात्र: छात्रत्वं येषु सर्वदा।
गुरुणा दीयते धर्मस्तस्मै श्रीगुरवे नमः।।४।।
सर्वदा ज्ञानधर्माय जिज्ञासूनां कृते तथा।
अज्ञानस्य विनाशाय तस्मै श्रीगुरवे नमः।।५।।
गुरुणा प्राप्यते शिष्यो गुरुर्शिष्येन सर्वदा।
अस्माभि: प्राप्यते ज्ञानन्तस्मै श्रीगुरवे नमः।।६।।
मनसा पूज्यते सर्वैराद्रियते सदा जनै:।
कर्मणा ध्यायते नित्यन्तस्मै श्रीगुरवे नमः।।७।।
अस्माभि: पूज्यते ज्ञानं वसुभि: पूज्यते गुरु:।
नृदेवेषु गुरु: श्रेष्ठस्तस्मै श्रीगुरवे नमः।।८।।
गुर्वष्टकम्महापुण्यम्भाषितं रविरञ्जनै:।
सदा गुरो:कृपाम्प्राप्तुं किञ्चिदपि न संशय:।।
-झाकोश:
रचनाकार:
झोपाख्यो रविरञ्जन:
(रविरंजन कुमार झा)