
नवदेहली। असम राज्ये नगांवम् भूतः जघन्य अपराधेन असमजनाः कम्पिताः। ७० वर्षीयः जैनालुद्दीनः मण्डलस्य पश्चिमसिङ्गिमारीक्षेत्रे ३ वर्षीयायाः नाबालिगस्य बलात्कारं कृतवान् ।
उल्लेखितम् यत् सोमवासरे सायंकाले एषा लज्जाजनकघटना अभवत्। पुलिसस्य मते नाबालिगः स्वगृहस्य पृष्ठतः क्रीडति स्म। तदनन्तरं सा निद्रां गता । जैनालः नाबालिगं पश्यति स्म। जैनालुद्दीनः तां सुप्तवती तदा बलात्कारं कृतवान्, गृहे कोऽपि नासीत्। पीडिता कथञ्चित् स्वमातापितरौ घटनाविषये सूचितवती। आहतमातापितरः तत्क्षणमेव स्थानीयपुलिसम् अवदन्।
रुफिहाट थाना निरीक्षक: संजीतकुमार रे शीघ्रं कार्यं कुर्वन्, जैनालुद्दीन गृहीतःकृतवन्तः । आरोपी अपराधं स्वीकृतवान् इति पुलिस सूत्रैः उक्तम्। पुलिसेन अभियुक्तस्य विरुद्धं पोक्सो अधिनियमस्य अन्तर्गतं प्रकरणं पञ्जीकृत्य कारागृहम् प्रेषितम् अस्ति।