नवदेहली। कोरोनाप्रकरणेषु गतिः वर्धिता अस्ति। विगतदिनद्वयं यावत् कोरोनासंक्रमणस्य सकारात्मकाः प्रकरणाः २० सहस्रात् परं गच्छन्ति। सर्वकारस्य टीकाकार्यक्रमस्य अनन्तरम् अपि प्रकरणाः स्थगितुं नाम न गृह्णन्ति। विगत २४ घण्टेषु देशे २०,०३८ नूतनाः कोरोना-वायरस-संक्रमणस्य प्रकरणाः प्राप्ताः, येषु १६,९९४ रोगिणः स्वस्थाः अभवन्, ४७ जनाः मृताः च। देशे सक्रियरोगाणां संख्या १,३९,०७३ अभवत् ।
#AmritMahotsav#Unite2FightCorona#LargestVaccineDrive
➡️ India’s Cumulative #COVID19 Vaccination Coverage exceeds 199.47 Cr (1,99,47,34,994).
➡️ Over 3.78 Cr 1st dose vaccines administered for age group 12-14 years.https://t.co/mNRKDUQEXy pic.twitter.com/eEZxVlwgZs
— Ministry of Health (@MoHFW_INDIA) July 15, 2022
अद्य आगतानां प्रकरणानाम् अपेक्षया अद्य सक्रियप्रकरणानाम् संख्यायां २९९७ रोगिणां वृद्धिः अभवत्। एषः द्वितीयः दिवसः अस्ति, यदा देशे २० सहस्राधिकाः सक्रियप्रकरणाः पञ्जीकृताः सन्ति । पूर्वं जुलैमासस्य १४ दिनाङ्के २०,१३९ नूतनाः प्रकरणाः प्राप्ताः, ३८ जनाः मृताः। विगत २४ घण्टेषु पश्चिमबङ्गदेशे २९७९ नूतनाः प्रकरणाः प्राप्ताः, यस्य कारणेन सक्रियप्रकरणानाम् संख्या २७,४९६ अभवत् । तस्मिन् एव काले तमिलनाडुदेशे २,२६९ नूतनाः कोरोनारोगिणः प्राप्ताः सन्ति । एतावता देशे कोविड्-रोगस्य ८६८ कोटि-नमूनानां परीक्षणं कृतम् अस्ति ।
#COVID19: भारत में पिछले 24 घंटों में 20,038 नए मामले सामने आए, 16,994 ठीक हुए और 47 लोगों की मौत हुई।
सक्रिय मामले 1,39,073
दैनिक सकारात्मकता दर 4.44% pic.twitter.com/fw31Jfei5u— Hindusthan Samachar News Agency (@hsnews1948) July 15, 2022
विगत २४ घण्टेषु ३,९४,७७४ नमूनानां परीक्षणं कृतम् । सम्प्रति पश्चिमबङ्गदेशे सर्वाधिकसक्रियप्रकरणाः २७,४९६, केरलदेशे २६,४५१, तमिलनाडुदेशे १८,२८२, महाराष्ट्रे १६,९२२, कर्नाटकदेशे ६,६०३, तेलङ्गानादेशे ५,०८२ च सन्ति । ज्ञातव्यं यत् कोरोना-रोगस्य वर्धमान-प्रकरणानाम् अनन्तरं १५ जुलै-दिनाङ्कात् शुक्रवासरात् आरभ्य सर्वकारेण बूस्टर-मात्रायाः विशेष-अभियानम् आरब्धम् अस्ति । १८ तः ५९ वर्षाणां मध्ये जनानां कृते निःशुल्कं प्रदत्तं भविष्यति । टीकाकरणविषये राष्ट्रियतकनीकीपरामर्शसमूहस्य अनुशंसया सर्वकारेण अद्यैव २ टीकानां अनन्तरं बूस्टर-मात्रायाः अन्तरालः ९ मासात् ६ मासान् यावत् न्यूनीकृतः आसीत् ।
केंद्रीय श्रम और रोजगार मंत्री @byadavbjp ने नई दिल्ली में बूस्टर डोज लगवाकर 75-दिवसीय मुफ्त कोविड -19 टीकाकरण अभियान शुरू किया।
#AmritMahotsav@MoHFW_INDIA pic.twitter.com/t1P1tUCA8a
— Hindusthan Samachar News Agency (@hsnews1948) July 15, 2022
अर्थात् १८ तः ५९ वर्षाणां आयुवर्गे येषां द्वितीयं टीकं प्राप्तम्, तेषां कृते ६ मासाः व्यतीताः, ते इदानीं निःशुल्कं बूस्टर-मात्रा प्राप्तुं शक्नुवन्ति। एषा मात्रा सर्वकारीयप्रतिरक्षणकेन्द्रेषु निःशुल्कं दीयते। एतस्मात् पूर्वमपि सर्वकारेण कोरोना-टीकायाः २ डोजाः निःशुल्कं दत्ताः आसन् । देशे एतावता कोविड्-टीकायाः १,९९,४७,३४,९९४ मात्राः प्रदत्ताः सन्ति । विगत २४ घण्टेषु १८,९२,९६९ टीकायाः मात्राः प्रदत्ताः सन्ति ।
उत्तर प्रदेश: मुख्यमंत्री योगी आदित्यनाथ ने लखनऊ के सिविल अस्पताल में COVID-19 के लिए बूस्टर डोज़ अभियान शुरू किया।@myogiadityanath pic.twitter.com/XVUAeiaZ9r
— Hindusthan Samachar News Agency (@hsnews1948) July 15, 2022