कुलदीपमैन्दोला। हरिद्वारं।
निर्धननिकेतनहरिद्वारे संस्कृतसंगोष्ठी 14/07/2022दिनांके समायोजिताभवत् । उत्तराखण्डस्य प्रदेशस्य पूर्वमुख्यमंत्री, भारतसर्वकारे पूर्वशिक्षामंत्री वर्तमानमान्यसांसद: हरिद्वारलोकसभात: डॉ. रमेशपोखरियालनिशंकवर्य: तथा उत्तराखण्डप्रदेशस्य संस्कृतशिक्षाया:, माध्यमिकशिक्षाया:,उच्चशिक्षाया:, एवं स्वास्थ्यमंत्री माननीय: डॉ. धनसिंहरावत: तथा संस्कृतमान्य: सचिव:, कुलपति:, निदेशक: तथा अन्याधिकारिण: एवं च उत्तराखंडप्रदेशस्य संस्कृतविद्यालया:/महाविद्यालयप्रबन्धका:/प्राचार्या:/प्रधानाचार्या:/आचार्यगणा: प्रतिभागं गृहीतवन्त:।
गौरवस्य विषयोस्ति यत् कार्यक्रमे सम्पूर्णसंस्कृतजगत् एकत्रितं भूत्वा उत्तराखंडस्य द्वितीयराजभाषाया: संस्कृतोन्नयनाय विचारविमर्शं कृत्वा संगोष्ठीं सफलं कृतवन्त:। तत्रैव श्रद्धावांल्लभते ज्ञानं च कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इति गीतासूक्तिभावनया भारतीयसनातनपरम्परायां आचार्यदेवो भवानुसारेण गुरुपर्वावसरफलम् गुरुपूर्णिमामहोत्सवे अत्रत्य विभिन्नछात्रै: सम्प्राप्तं ।
सर्वछात्रै: कृतज्ञजनस्वगुरुं प्रति भावं आदरं श्रद्धासुमनं चार्पितं। श्रृंखलायामस्यां ऋषिपरम्पराया: पावनप्रांगणे वर्षेस्मिन् ऋषिरामकृष्णमहाराजद्वारा गुरुसम्मानसमारोहश्रंखलायां हरिद्वारस्य वेदांतशास्त्रस्य निष्णातमहापुरुष: च योहि वेदांतशास्त्रस्य प्रतिमूर्ति: वर्तते , सैव “रमाकांततिवारी”(वेदांतीवर्य:..”तुल्यनिन्दास्तुतिर्मौनी”) इत्यस्मदीयं गुरुदेवं दिव्यतममहापुरुषाणां सन्निधौ सम्मानितं कृत्वा उत्कृष्टतमपरम्पराया: निर्वहणं कृतं ।
समस्तपूर्वछात्रै: डा.कुलदीपपन्तमहोदयेन सह महाराजश्रीं प्रति अस्मै सम्मानितकार्याय कृतज्ञता ज्ञापिता। सर्वे आश्वस्ता: अभवन् यत् भवतां पवित्रतमप्रयासे “भारतीयशिक्षाया: इदम् अनुपमं प्रतिष्ठानं” उत्तरोत्तरोच्चताशिखरं प्रति अग्रसर: भविष्यति ।