-भाषणप्रतियोगितायां वरिष्ठवर्गे सुमितकुमार: कनिष्ठवर्गे आरुषि प्रथमस्थानं प्राप्तवन्तौ
कुलदीपमैन्दोला ।कोटद्वार । श्रावणमासस्य कर्कसक्रांतिदिवसावसरे सम्पूर्ण प्रदेशे वृक्षारोपणकार्यक्रम:संजायते। विद्याभारती “एक छात्र एक पौधा” अनेन संकल्पाधारेण कार्यक्रमं आयोजयति । तदनुसारेण रितेशशर्मा सरस्वतीविद्या मंदिरे इंटरकॉलेजजानकीनगरे कोटद्वारपौड़ीगढ़वाले हरेलासप्ताहस्य शुभोपलक्ष्ये हरेलापर्वविषये च वृक्षारोपणविषये भाषणप्रतियोगिताया: आयोजनं संजातं।
कार्यक्रमस्य संयोजिका कु. पूजा विज्ञापितवती यत् कार्यक्रमस्य शुभारंभे अत्र प्रार्थनासभायां विद्यालयस्य प्रधानाचार्यवर्य: हरेलापर्वण: महत्वं प्रोक्तवान् । श्रावणमासस्य कर्कसक्रांतिदिवसावसरे सम्पूर्णप्रदेशे वृक्षारोपणकार्यक्रम: संजायते। विद्याभारती “एक छात्र एक पौधा” अनेन संकल्पाधारेण कार्यक्रमं आयोजयति । विद्यालये आयोजितायां भाषणप्रतियोगितायां वरिष्ठवर्गे निर्णायका: संगीतारावत, कु.पूजा, प्रीतिबलूनी आसन् ।
भाषणप्रतियोगितायां कनिष्ठवर्गे 13 प्रतिभागिन: एवं वरिष्ठवर्गे 24 प्रतिभागिन: प्रतिभागं गृहीतवन्त: । वरिष्ठवर्गे प्रथमस्थाने 12कक्षाया: सुमितकुमार: (52 अंका:), द्वितीयस्थाने 12कक्षाया: प्रिंसगंगवार: (49 अंका:), तृतीयस्थाने 11कक्षाया: आयुषी आदर्श: (47 अंका:) प्राप्तवन्त: । एवं च कनिष्ठवर्गे निर्णायका: मधुबालानौटियाल, सरोजनेगी, प्रकाशकैंथोला आसन् ।
कनिष्ठवर्गे प्रथमस्थाने 7कक्षाया: आरुषि (56 अंका:), द्वितीयस्थाने 8कक्षाया: मानवीसैनी (51 अंका:) , एवं तृतीयस्थाने 6कक्षाया: तनुश्री (50 अंका:) प्राप्तवत्य:। 16 जुलाईदिनांके विद्यालये वृक्षारोपणकार्यक्रम: समायोज्यते यो हि कक्षानुसारेण समायोज्यते। अवसरेस्मिन् पर्यावरणविभागस्य सदस्या: एवं समस्ता: आचार्यावर्गा: उपस्थिता: आसन् ।