
कुलदीपमैन्दोला। उत्तराखण्ड।
मुख्यमंत्री श्री पुष्करसिंहधामी हरेलापर्वावसरे स्पोर्ट्सकॉलेज इत्यत्र देहरादूननिकटे वनविभागद्वारा समायोजिते पौधारोपणकार्यक्रमे प्रतिभाग: कृतवान् । सम्बोधने अत्र तै: प्रदेशवासिभ्य: पर्यावरणसंरक्षणे संस्कृतिसम्बद्धपारंपरिक- -लोकपर्वहरेलाया: शुभकामना: प्रदत्ता: ।
मुख्यमन्त्रिणा उक्तं यत् हरेलापर्वान्तर्गतं एकमासपर्यन्तं वृक्षारोपणस्य अभियानं सञ्चालयिष्यते। प्रत्येकजनपदेषु नदीनां , जलस्रोतानां एवं च लघुजलप्रवाहिकुल्यानां पुनरुज्जीवनाय संरक्षणोद्देश्यानुसारेण कार्यं करिष्यते । उत्तराखण्डं जैवविविधतानां राज्यमस्ति । अत्रत्य प्राकृतिकसौन्दर्यम् पर्यटकान् आकर्षयति।
अवसरेस्मिन् वनमंत्री सुबोध-उनियाल:, विधायक: श्री उमेशशर्माकाउ, मेयरश्रीसुनील-उनियाल: वनप्रमुखसचिव: श्री आर. के. सुधांशु:, प्रमुखवनसंरक्षक: श्री विनोदकुमारसिंघल:, गढ़वालकमिश्नर श्री सुशीलकुमार:, देहरादूनजिलाधिकारी डॉ. आर. राजेशकुमार: एवं च वनविभागस्य अधिकारिण: उपस्थिता: आसन् ।