कुलदीपमैन्दोला । हरिद्वार। हरेलामहोत्सवस्य सरस्वतीविद्यामंदिर-इंटर कॉलेजसेक्टर- 2भेलरानीपुरहरिद्वारे उत्साहेन आचरणं संजातं। कार्यक्रमस्य उद्घाटनम् विद्यालयस्य प्रधानाचार्यवर्य: श्रीमान् नरेशकुमारचौहानमहोदयेन एवं विद्यालयस्य प्रबन्धकेन श्रीमान्दीपकसिंघलवर्येण मातुस्सरस्वत्याः समीपे सामूहिकरूपेण दीपं-प्रज्वाल्य कृतं। कार्यक्रमे विद्यालयस्यवरिष्ठ शिक्षक: तारादत्तजोशीवर्य: हरेलोत्सवस्य आचरणस्य विषये उक्तवान् यत् अद्यारभ्य आयनपरिवर्तनं भवति तथा च सस्यानि रोपितानि भवन्ति, वृक्षाणां, वनस्पतीनां इत्यादीनां वपनम् आरभ्यते।
इतः अनन्तरम् आचार्यभानुप्रतापचौहान: अवदत् यत् अस्मिन् समये कश्चन्नपि वृक्षान् रोपयति , सहजतया वर्धते । त्वमपि लक्ष्यं स्थापयसि, मम वृक्षः मम मित्रम् अस्ति। एन.एस.एस. कार्यक्रमे आचार्या हेमा-जोशीवर्या उक्तवती -अस्माभिरेव पर्यावरणस्य संरक्षणं ,रक्षणं,संवर्धनं करणीयं ।
अस्मिन् अवसरे विद्यालयस्य प्रधानाचार्य: श्रीमान्नरेश-कुमारचौहानवर्येण सर्वेभ्यः हरेला-पर्वणः शुभाशयाः प्रदत्ता: । भवता उक्तं यत् पशूनां जीवनाय वायुः आवश्यकः, यत् वयं वृक्षेभ्यः वनस्पतिभ्यः च प्राप्नुमः। अस्माकं जन्मदिवसस्य अवसरे अथवा मातापित्रो: जन्मदिने एकं वृक्षं रोपयितव्यं तथा च तेषां रक्षणं करणीयम्।अयं हरेलापर्व उत्तराखण्डस्य प्रसिद्धः उत्सवः अस्ति, एतत् सप्ताहं यावत् आचर्यते। अत्र विभिन्नप्रतियोगितानाम् आयोजनं भविष्यति यथा- निबंध, कला, पोस्टर इत्यादय: ।
कार्यक्रमे विद्यालयस्य प्रबन्धकः अवदत् यत् अस्माभिः प्रकृतेः संरक्षणं कर्तव्यम् इति। अस्माभिः जीवने अनावश्यकरूपेण कागदस्य अपव्ययः न कर्तव्यः यतोहि वयं केवलं वृक्षेभ्यः अपि तत् प्राप्नुमः। कार्यक्रमस्य संचालनं श्रीमती नेहा वर्मा कृतवती ।आचार्य: मनीषबड़थ्वालवर्यः छात्रै: सह वृक्षारोपणं कृतवान्/ कारितवान् च । अस्मिन् अवसरे विद्यालयस्य समस्तपदाधिकारिण: उपस्थिता: आसन् ।