कुलदीपमैन्दोला। कोटद्वार। उत्तराखण्डे कर्कसंक्रान्तिपर्वण: अवसरे हरियालीपर्वाचरण: समाचर्यते । अस्मिन्वर्षे पर्वोल्लास: सर्वत्र भवेत् तदर्थं विद्यालयेषु अवकाश: संजात: । शिक्षाविभागेन शुक्रवासरे एव विद्यालयसमये वृक्षारोपणकार्यक्रम: संचालित: ।
यत्र विभिन्नविद्यालयेषु छात्रछात्राभि: शिक्षिकाशिक्षकैश्च वृक्षारोपणकार्यक्रम: समायोजित:।हरेलापर्वोपलक्ष्ये इंटरकॉलेजइंद्रापुरीविद्यालये पौड़ीगढ़वाले औषधीयवृक्षाणां एवं फलदायिनां वृक्षाणां रोपणम् अभवत् ।
अवसरेस्मिन् समस्तविद्यार्थिभिस्सह विद्यालयस्य प्रधानाचार्य: कुलदीपथपलियाल: रोशनगौड:, कैलाशथपलियाल:, विनीताभट्ट:, सुकलसिंह:, अरविंदसाह:, रितिकपांडे आदिभि: छात्रछात्राभिस्सह वृक्षारोपणं समाचरितं ।