
-कुलदीपमैन्दोला । कोटद्वार।
दशपुत्रसमो द्रुम: अर्थात् दशपुत्राणां सदृशम् एक: पुत्र: भवति । तदनुसारेण पर्यारणचिन्तने भारतीयासंस्कृति: सदैव प्रकृतिपूजां साधयति । बहुत्र प्रकृतिसंरक्षणे पर्यावरणसंरक्षयितुम् संक्रांतिदिवसे हरेलापर्वमामनन्ति । उत्तराखण्डे कर्कसंक्रान्तिपर्वण: अवसरे हरियालीपर्वाचरण: समाचर्यते ।
अस्मिन्वर्षे पर्वोल्लास: सर्वत्र भवेत् तदर्थं विद्यालयेषु अवकाश: संजात: । शिक्षाविभागेन शुक्रवासरे एव विद्यालयसमये वृक्षारोपणकार्यक्रम: संचालित: । यत्र विभिन्नविद्यालयेषु छात्रछात्राभि: शिक्षिकाशिक्षकैश्च वृक्षारोपणकार्यक्रमा: समायोजिता: । तत्रैव हरेलापर्वावसरे पौड़ीगढ़वाले कौड़ियालैंसडौनक्षेत्रे राजकीय-इंटर-कॉलेज-कांडाखाले अयम् उत्सव: समाचरितोभवत् । अवसरेस्मिन् शिक्षकै: छात्रमाध्यमेन फलदायीवृक्षाणां रोपणं कृतं । योगप्रशिक्षक: श्रीराकेशकण्डवाल: पर्यावरणविषये जागरयन् वृक्षारोपणमहत्वंम् छात्राणां कृते प्रदर्शितवान् । तेन सहैव छात्रछात्राभि: अस्मिन्दिवसे विभिन्नवृक्षाणां रोपणं कृतं ।