
– जगदीश डाभी
मुम्बई । प्राप्तवार्तानुसारं दीर्घकालं यावत् विलम्बस्य अनन्तरम् अक्टूबरमासस्य ७-दिनाङ्के प्रदर्शितं भविष्यति अरविंद स्वामी-अभिनितं चलच्चित्रं सथुरंका वेट्टई 2 । अत्यन्तं मनोरञ्जकं सुपरहिट् तमिलचलच्चित्रं सथुरङ्का वेट्टई 2 इत्यस्य उत्तरकथा अक्टूबरमासस्य ७-दिनाङ्के प्रदर्शितं भविष्यति ।
अस्य निर्मातारः रविवासरे एतत् घोषितवन्तः । अभिनेता निर्माता च मनो बाला ट्विट्टर्-माध्यमेन एतां घोषणां कृतवान्, सः अस्य चलच्चित्रस्य एकं विज्ञापनचित्रं ट्वीट् कृतवान्, यस्य प्रदर्शनस्य तिथिः ७ अक्टोबर् आसीत् ।
After much delay, Arvind Swami-starrer 'Sathuranka Vettai 2' release set for Oct 7#glamsham #SathurankaVettai2 #ArvindSwami #Sathurankavettai2FromOctober7 https://t.co/W2dXfQI8ax
— glamsham.com (@glamsham) July 18, 2022
एनवी निर्मल कुमारेण निर्देशित सथुरंका वेट्टाई 2 चलच्चित्रे मुख्य-भूमिकासु प्रसिद्धाभिनेता अरविन्द स्वामी एवतृषा, प्रकाश राज:, राधा रवि:, नस्सर:, चंदिनी, श्रीमान, मनोबाला, कुमारवेल, ई रामदास: च सन्ति ।
निर्मलकुमारः विजय एण्टोनी इत्यनेन सह सुपरहिट् चलच्चित्रस्य सलीमस्य निर्देशनस्य कृते प्रसिद्धः अस्ति । इति दीर्घकालं यावत् विलम्बस्य अनन्तरम् अक्टूबरमासस्य ७-दिनाङ्के प्रदर्शितं भविष्यति अरविंद स्वामी-अभिनितं चलच्चित्रं “सथुरंका वेट्टई 2” Sathuranka Vettai ।
Sathuranka Vettai 2 sequel starring actor Arvind Swami and @trishtrashers will finally be released on October 7 this year, its makers announced on Sunday.#SathurangaVettai2 #Sathurankavettai2FromOctober7 #arvindswami #TrishaKrishnan https://t.co/ALOeOhpVWU
— DT Next (@dt_next) July 18, 2022