
-पूर्वशिक्षामन्त्री एवं सांसद: डा. रमेशपोखरियालनिश्शंकवर्य:
-संयुक्तराष्ट्रस्य मान्यताप्राप्तभाषासु हिंदीसम्मेलनाय अखिलविश्वस्य सम्पूर्णदेशेषु हिंदी च संस्कृत इत्यनयो: पीठानां स्थापनार्थम् आग्रहं कृतवान् ।
कुलदीपमैन्दोला, दिल्ली। पूर्वशिक्षामन्त्री एवं सांसद डा. रमेशपोखरियालनिश्शंकवर्य: संसदभवने माननीयविदेशमन्त्रिणा डॉ.एस.जयशंकरवर्येण सह तेषां संसदीयकार्यालये शिष्टाचारसम्मेलनं कृतवान् । माननीयमंत्रीमहोदयस्य तेषां कृतप्रयासे ऐतिहासिककार्येषु, यूएन इत्यत्र हिंदीभाषाया: प्राप्तसम्माने तथा यशस्वीप्रधानमन्त्रिण: श्रीनरेन्द्रमोदीवर्यस्य नेतृत्वे ऑपरेशन गंगा इत्यन्तर्गतं यूक्रेनदेशात् उत्तराखंडस्य समस्तछात्रछात्राणां सुरक्षितगृहं सम्प्राप्तुं आभार: प्रकटित: ।
अवसरेस्मिन् माननीयमंत्रीवर्यं संयुक्तराष्ट्रस्य मान्यताप्राप्तभाषासु हिंदीसम्मेलनाय अखिलविश्वस्य सम्पूर्णदेशेषु हिंदी च संस्कृत इत्यनयो: पीठानां स्थापनार्थम् आग्रह: कृत: । अथ च केंद्रीयरेलमन्त्रिणा श्री-अश्वनीवैष्णवेन सह तेषां लोकसभास्थिते कार्यालये शिष्टाचारसम्पर्क: विहित: ।
अवसरेत्र तै: सह हरिद्वारऋषिकेशयो: मध्ये श्यामपुरे उपरिसेतुनिर्माणस्य च देवबंद-रुड़की इत्यत्र नवीनरेलमार्गे कृषकसमस्यानां त्वरितनिस्तारणस्य आग्रह: कृत: । सहैव माननीयमंत्रीवर्यं ऋषिकेशकर्णप्रयागरेलमार्गे गतिपूर्वककार्यकरणाय वर्धापनानि प्रदत्तानि ।