– कुलदीपमैन्दोला
कोटद्वार, रितेशशर्मासरस्वतीविद्यामन्दिरे चित्रकलाप्रतियोगिताया: आयोजनं संजातं । कार्यक्रमस्य शुभारम्भ: प्रधानाचार्येण लोकेंद्र-अंथवालेन एवं च कलाविषयप्रमुखेन अनिलभटनागरेण संयुक्तरूपेण दीपप्रज्ज्वालनेन कृतं। तत्पश्चात् विद्यालयस्य सर्वे छात्रा: कक्षाश: चित्रकलाप्रतियोगितायां प्रतिभागं कृतवन्त: । चित्रकलाया: मुख्यविषय: आसीत् पर्यावरणं, हरेला एवं च वृक्षारोपणं ।
चित्रकलाप्रतियोगिताया: निर्णायकौ श्रीअनिलभटनागर: एवं श्रीकोटनाला विज्ञापितवन्तौ यत् प्रतियोगितापरिणामे कक्षा 6 त: पूजासिंह:, दीपिकाराणा, संयुक्तरूपेण आस्था , अभय:, क्रमशः प्रथम: द्वितीय: तृतीय: समागता: । कक्षा 7 त: सोनम, गरिमा, शिवांशडोबरियाल:, क्रमशः प्रथमं द्वितीयं तृतीयं स्थानं प्राप्तवन्त: कक्षा 8 त: गौरंगीसक्सेना, प्रियंका-अग्रवाल, मानवी एवं वंदना क्रमशः प्रथमद्वितीयतृतीयस्थाने च कक्षा 9 त: अर्चनागुप्ता, तनीषा, आदितीनेगी , क्रमशः प्रथमद्वितीयतृतीयस्थाने कक्षा 10 त: आदित्य-असवाल:, स्मृतिरौथान, प्रियांशीरावत क्रमशः प्रथमद्वितीयतृतीयस्थाने आसन् ।
कक्षा 11त: सुहानीनेगी, नमिताजुयाल , वैशालीचौहान क्रमशः प्रथमं द्वितीयं तृतीयं स्थानं प्राप्तवन्त: । कक्षा 12 त: आकांक्षागुसाईं, काजल, आयुषीशर्मा एवं च निहारिका क्रमशः प्रथमं द्वितीयं तृतीयं स्थानं प्राप्तवन्त: । अवसरेस्मिन् रोहितबलोदी, संगीतारावत, राहुलभाटिया , राजनशर्मा, शिवराम:, गौरवबुडाकोटी, च आदय: उपस्थिता: आसन् ।