– डॉ. नरेन्द्र राणा
जूनमासस्य 21-दिनाङ्के गुरुवासरे Online संस्कृतशिक्षणम् इत्यनेन आयोजिताया: ऑनलाइन- संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। अस्यां प्रतियोगितायामस्याम् राजस्थानत: खुमाराम चौधरी प्रथमं स्थानं प्राप्तवान् । द्वितीयं स्थानं देहलीत: भानु भक्त जोशी, तृतीयस्थाने गुजरातत: आशिष रतनधायरा वर्तते।
प्रतियोगिताया: पुरस्कारप्रायोजक: राजस्थानत: आचार्य: चेतनकुमारशास्त्री आयोजकश्च गुजरातत: राष्ट्रीय-संस्कृत-प्रचारक: जगदीशडाभी आसीत्। ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणं द्वारा प्रतिसप्ताहम् ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: राजस्थानत: आचार्य: चेतनकुमारशास्त्री सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति। तेन सह उत्तराखंडात् संस्कृत-रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।