
कुलदीपमैन्दोला। कोटद्वार। उत्तराखण्ड।
हरिद्वार: । श्रावणमासे हरिद्वारे शिवभक्ता: गंगाजलमानेतुं च शिवस्तुतिं कर्तुं समागच्छन्ति । तेषां स्वागतार्थं मुख्यमन्त्रिण: श्रीपुष्करसिंहधामीवर्यस्य निर्देशानुसारेण शुक्रवासरे हरिद्वारे नारसनसीमा, बैरागी कैम्प, हर की पैड़ी इत्यस्मिन् च अन्यस्थानेषु कांवड़जनेषु ऊपरिष्टात् वायुयानेन पुष्पवर्षा अभवत् ।
कांवडयात्राया: सन्दर्भे मुख्यमंत्री अधिकारिणां कृते स्पष्टम् आदेशं निर्दिष्टवान् यत् कांवड़यात्रिणां कृते देवभूमौ उत्तराखण्डे सर्वव्यस्थानां ध्यानं भवेत् तथा तेषां सेवायां कापि न्यूनता न भवेत् । तत: पूर्वं मुख्यमंत्री अपि बुधवासरे हरिद्वारे कांवड़यात्रिणां स्वागतं कृतवान् ।