कुलदीपमैन्दोला।कोटद्वार। उत्तराखण्ड।कोरोनाद्वारा शिक्षाक्षेत्रे छात्राणाम् अधिगमस्य अवरोध: आसीत् तदर्थम् अधिगमक्षतिपूर्तिहेतु विद्यासेतुपाठ्यक्रम: उत्तराखण्डस्य राज्यशैक्षिक-अनुसन्धान- एव प्रशिक्षणपरिषद्द्वारा सञ्चाल्यते । अभिमुखीकरणकार्यशालाया: अन्तर्गतं राजकीय-आदर्श-इंटर-कॉलेज-कोटद्वारे एससीईआरटी एवं अजीम-प्रेमजी-फाउंडेशन इत्यनयो: संयुक्ततत्वाधाने दुगड्डाविकासखंडान्तर्गतं राजकीयमाध्यमिकविद्यालयानाम् एवं उच्चमाध्यमिकविद्यालयानां गणितविज्ञानयो: कार्यशालाया: आयोजनं संजातं ।
दुगड्डाविकासक्षेत्रस्य विभिन्नविद्यालयानां 35 प्रतिभागिभि: प्रतिभाग: कृत: । प्रशिक्षणे कोविड-19समये न्यूनतमाधिगमं अप्राप्ते सति न्यूनाधिगममपाकर्तुं चर्चा परिचर्चा अभवत्। प्राथमिकस्तरे एवं माध्यमिकस्तरे सञ्चाल्यमाने अधिगमक्षतिपूर्तिहेतु विद्यासेतुपाठ्यक्रमे प्रतिभागिभि: स्वविचारा: प्रकटिता: ।
अजीम-प्रेमजी-फाउंडेशन-दुगड्डा-ब्लॉक इत्यस्य सहसमन्वयिकया श्रुतिकाराणाद्वारा अस्य कार्यक्रमस्य विस्तृतरुपरेखा विज्ञापिता । कार्यक्रमे संदर्भदातारूपेण राजकीय-इंटर-कॉलेज-झंडीचौड़त: सुशीलथलेड़ीद्वारा एवं राजकीय-इंटर-कॉलेज-कोटद्वारत: भगवानसिंहनेगीद्वारा प्रशिक्षणं प्रदत्तं ।