पटना। बिहारे चपरानगरस्य थानाक्षेत्रस्य अन्तर्गतं खैडानगरे स्थितस्य मस्जिदस्य समीपे पटाखाव्यापारिणः रियाजमियान् इत्यस्य गृहे विस्फोटस्य अनन्तरं सम्पूर्णं गृहं ध्वस्तम् अभवत्। अस्मिन् विस्फोटे षट् जनाः मृताः इति पुष्टिः कृता अस्ति । मृताः ते सर्वे एकस्यैव कुलस्य भवन्ति। स्थले एव मलबानिष्कासनकार्यं प्रचलति।
पुलिस अनुसारे थाना खैरा के खोदईबाग बाजार: ग्रामं बम विस्फोट प्रकरणं एकस्यैव कुटुम्बस्य षट् जनाः मारिताः । मृतानां मध्ये ३५ वर्षीयः मोलाजिम अली, ३० वर्षीयः शबाना खातूनः, ६२ वर्षीयः अमीना खातूनः, २२ वर्षीयः सवीरः, २० वर्षीयः यस्मीनः, पञ्चवर्षीयः शाहजादः च सन्ति ।एतेषां पुष्टिकरण जिला प्रशासनेन कृतम्। सूचना पुलिस तत्र गत्वा सर्वान् मृतशवान् पोस्टमार्टमार्थं सदर-अस्पतालं प्रेषितवान्। पुलिस दुर्घटनायाः अन्वेषणं कुर्वती अस्ति।