-जगदीशडाभी
अहमदाबाद । जूनमासस्य 23-दिनाङ्के शनिवासरे गुजरातत: संस्कृतप्रेमी कृषकस्य रमेशभाई डाकीवर्यस्य पुत्री “छात्रा-विभूतिबेन डाकी” इत्यस्या: जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् इत्यनेन आयोजिताया: ऑनलाइन- संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता।
अस्यां प्रतियोगितायामस्यां हिमाचल प्रदेशत: प्रियंका कपूर: प्रथमं स्थानं प्राप्तवती । द्वितीयं स्थानं गुजरातत: माधुरी चौहान:, तृतीयस्थाने उत्तरप्रदेशत: राजकुमारी गुप्ता वर्तते। प्रतियोगिताया: पुरस्कारप्रायोजक: गुजरातत: संस्कृतप्रेमी कृषक: रमेशभाई अरजनभाई डाकी आयोजकश्च गुजरातत: राष्ट्रीय-संस्कृत-प्रचारक: जगदीशडाभी आसीत्।
ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणं द्वारा प्रतिसप्ताहम् ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: गुजरातत: रमेशभाई अरजनभाई डाकी सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति। तेन सह उत्तराखंडात् संस्कृत-रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।