
ढाका। बांग्लाराष्ट्रे अल्पसंख्यकानाम् उपरि विशेषतः भारतीयहिन्दूनागरिकाणां जीवनोपरि मरणान्तकम् आक्रमणं नियमितं मन्यते। कठोर इस्लामिकदलस्य आक्रमणस्य तीव्र निन्दां कुर्वन्तः हिन्दुसंगठनस्य प्रतिनिधयः राजमार्गे विक्षोभं प्रदर्शितवन्तः ।
तत्र राष्ट्रीयगृहमन्त्री असदुज्जमां उक्तवान् यत् देशे सांप्रदायिक-वैमनसस्य निराकरणाय तस्य सर्वकारः प्रयासरतः। सर्वत्र समरसता स्थापनीया। गृहमन्त्री एतदपि स्पष्टं कृतवान् यत् अपराधीनामुपरि कठोरं कार्यानुष्ठानं भविष्यति। हिन्दूपीडितानां कृते न्यायः च प्रदास्यते।