नवदेहली। प्रवर्तन निदेशालयेन कांग्रेसदलाध्यक्षा सोनिया गान्धी अद्य एकवारं पुनः ‘नेशनल हेराल्ड’ इति प्रकरणसम्बद्ध धनशोधन विषये परिप्रश्नार्थं समाहूता। कांग्रेसदलाध्यक्षा सोनिया गान्धी अद्य मध्याह्ने प्रवर्तन निदेशालयं प्राप्स्यति।
एतत्पूर्वं मासस्यस्य एकविंशे दिनाङ्के अपि सोनिया गान्धी प्रवर्तन निदेशालय प्राप्तसीत् अवधेयं यत् कांग्रेसदलेन प्रचारिते यंग ईण्डन प्राइवेट लिमिटेड’ इत्यत्र वित्तीय अनियमिततानाम् अन्वेषणं प्रवर्तन निदेशालयेन विधीयते । एतस्मिन् विषये दिल्ली-आरक्षि बलेन कांग्रेसदलस्य राजघाट-स्मारके सत्याग्रह सम्बद्धा अनुमतिः निरस्तीकृता।