
– जगदीशडाभी
मुम्बई । ६८ तम: राष्ट्रियचलच्चित्रपुरस्कारस्य घोषणा शुक्रवासरे दिल्लीनगरस्य राष्ट्रियमाध्यमकेन्द्रे अभवत् । सर्वश्रेष्ठचलच्चित्रस्य पुरस्कार: ‘सोराराई पोटरू’ तमिल-चलच्चित्रं प्राप्त: । ‘सूरराई’ इत्यस्य पात्रस्य कृते सूर्या इत्यस्मै सर्वश्रेष्ठनायकपुरस्कारः प्राप्यते ।
यावद् अजय देवगनः तन्हा इति चलच्चित्रस्य कृते पुरस्कारं प्राप्तवान् । सर्वश्रेष्ठा-नायिकाया: पुरस्कारं ‘सूरराई पोटरु’ इति चलच्चित्रस्य नायिका अपर्णा बालमुरली लब्धवती । बिजू मेनन इत्यनेन सहायकभूमिकाया: कृते सर्वोत्तम-अभिनेता-पुरस्कारः प्राप्तः ।
लक्ष्मीप्रियाचन्द्रमौली सहायकभूमिकाया: कृते सर्वोत्तमाभिनेत्री इति पुरस्कारेण सम्मानिता जाता । इति 68th National Film Awards सूर्या तथा अजयदेवगनः राष्ट्रियपुरस्कारं प्राप्तवन्तौ ।