उज्जयिनीस्थ-महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये नवीनशिक्षानीत्यनुसारं सञ्चाल्यमानानां विविधपाठ्यक्रमेषु प्रवेशार्थं प्रवेशतिथौ वृद्धिर्जाता । 31 जुलाई 2022 पर्यन्तं पाठ्यक्रमेषु छात्राः प्रवेशाः स्वीकर्तुं शक्नुवन्ति ।
विश्वविद्यालयस्य कुलसचिवः डॉ. दिलीप सोनीमहोदयेन प्रोक्तं यत् छात्रहितं दृष्ट्वा प्रवेशतिथौ वृद्धिर्कारिता। विश्वविद्यालयस्य मान्यानां कुलपतिवर्याणाम् आचार्यः विजयकुमारमेननमहाशयानाम् अनुशंसया प्रवेशतिथौ वृद्धिर्कारिता ।