
स्नातकोत्तरमहाविद्यालयकोटद्वारस्य शिक्षाशास्त्रविभागस्य असिस्टेंट प्रोफेसर रश्मिबहुखण्डी सम्बोधयन्ती उवाच – जीवने संस्कृतं व्यावहारिकभाषायां अस्ति येन वयं हिंद्याम् अपि संस्कृतस्य प्रयोगं कुर्वन्त: स्म: । भारतस्य प्राचीनग्रंथा: संस्कृतभाषायां सन्ति एवं च संस्कृतसाहित्यं समृद्धं चास्ति।
कुलदीपमैन्दोला। कोटद्वार। उत्तराखण्ड।
संस्कृतभारतीकण्वनगरीकोटद्वारद्वारा सरस्वतीविद्यामन्दिरे जानकीनगरकोटद्वारे 10 दिवसीयसरलसंस्कृतसम्भाषणशिविरस्य उद्घाटनं शुक्रवासरे अभवत्। यत्र अतिथिरूपेण विश्वहिंदूपरिषद: उत्तरक्षेत्रीयसंगठनत: संजयथपलियालेन उक्तं यत् शुभावसरं सर्वेषां कृते संस्कृतशिक्षणस्य उत्तमं माध्यमं विद्यते संस्कृतभारत्या: प्रयास: यदि निरन्तऱ प्रचलति तु अवश्यमेव जना: संस्कृतेन वक्तुं शक्नुवन्ति ।
राष्ट्रीयस्वयंसेवकसंघस्य जनपदप्रचारक: श्रीराहुलवर्येण प्रोक्तं यत् संस्कृतभारती 34 देशेषु कार्यं करोति तथा विभिन्नवर्गेषु संस्कृते शिक्षणकार्यं संभाषणमाध्यमेन क्रियते । रा.इ.का.कण्वघाटीत: प्रधानाचार्यरमाकांतकुकरेतीवर्येण कथितं यत् संस्कृतभाषा यद्यपि पुस्तकरूपेण कठिनं मन्यते । परञ्च साधारणवार्तालापे इयं भाषा अत्यंतसरलम् अस्ति । अद्यापि जनानां विश्वास: संस्कृतसम्भाषणे अस्ति यत् संस्कृतभाषायां वार्तालापं कर्तुं शक्यते ।
स्नातकोत्तरमहाविद्यालयकोटद्वारस्य शिक्षाशास्त्रविभागस्य असिस्टेंट प्रोफेसर रश्मिबहुखण्डी सम्बोधयन्ती उवाच – जीवने संस्कृतं व्यावहारिकभाषायां अस्ति येन वयं हिंद्याम् अपि संस्कृतस्य प्रयोगं कुर्वन्त: स्म: । भारतस्य प्राचीनग्रंथा: संस्कृतभाषायां सन्ति एवं च संंस्कृतसाहित्यं समृद्धं चास्ति। अद्यापि विश्वस्य जना: संस्कृतस्य अध्ययनं बहुशिक्षणसंस्थानेषु कुर्वन्त: सन्ति । कार्यक्रमस्य संचालनं शिविरशिक्षक: कुलदीपमैन्दोला कृतवान् ।
संस्कृतभारत्या: विभागसंयोजक: पंकजध्यानी संस्कृतभारत्या: रूपरेखां प्रस्तुतवान् तथा सम्भाषणशिविरस्य कार्यक्रमस्य संयोजकत्वं एवं च अध्यक्षतां कुर्वन् विद्यालयस्य प्रधानाचार्य: लोकेंद्र-अण्थ्वाल: उक्तवान् यत् संस्कृतसम्भाषणस्य कार्यक्रम: अत्र निरन्तरं 3 वर्षत: संजायते यत्र कोरोनासमये छात्रै:अन्तर्जालीयसंस्कृतसम्भाषणेन वार्तालाप: प्रारम्भ: कृत: अस्मिन्समयेपि छात्राणां कृते 10 दिवसे संस्कृतशिक्षणस्य अवसर: प्राप्तोस्ति ।
अवश्यमेव संस्कृते दक्षं भूत्वा साधारणजनेषु संस्कृतसम्प्राप्त्यर्थं सफलं भविष्याम: । शिविरे 60 छात्रप्रतिभागिन: शिक्षकगण: एवं योगस्य शिक्षिका आचार्या: एवं च जनसामान्यसहिते संस्कृतभारत्या: सहशिक्षक: कार्यकर्ता सिद्धार्थनैथानी प्रकाशकैंथोला यतेंद्रनैथानी तथा विद्यालयस्य आचार्य: राजन्शर्मा, रेखाभंडारी तथा छात्राध्यापिका नाजमीन , मेहरबानकण्डारी विद्यामन्दिरस्य आचार्या कुसुमचतुर्वेदी च आदय: ।