
आगता समागता श्रावणस्य पूर्णिमा,
श्रावणस्य पूर्णिमा संस्कृतस्य वन्दनम्।
अस्य पूर्णिमा दिने संस्कृतदिनमागतं,
वन्दनाभिनन्दनं जयतु-जयतु संस्कृतम्॥ आगता समागता……
श्रावणीय पूर्णिमा संस्कृतेनाचर्यते,
भारतस्य वैभवं संस्कृतेन ज्ञायते।
श्रावणीय पूर्णिमा रक्षासूत्र वन्धनं,
वन्दनाभिनन्दनं जयतु-जयतु संस्कृतम्॥ आगता समागता……
गान-हास्य-भाषणैः नृत्य-नाटकादिकैः,
संस्कृते समर्पणाय स्वागतं-सुस्वागतम्।
अहर्निशं हि चिन्तनं भवतु संस्कृतस्य वन्दनं,
वन्दनाभिनन्दनं जयतु-जयतु संस्कृतम्॥ आगता समागता……
स्वीय राष्ट्र-चिन्तनं स्वीय राष्ट्र-वर्धनं,
भारतस्य वैभवं संस्कृतस्य गौरवम्।
राष्ट्रनायकादिनां मंगलं सुमंगलं,
वन्दनाभिनन्दनं जयतु-जयतु संस्कृतम्॥ आगता समागता……
संस्कृतोत्सवे दिने जनमुखे तु आगतं,
जयतु-जयतु संस्कृतं जयतु-जयतु भारतम्।
भारतीय संस्कृतेः भवतु नित्य वन्दनं,
वन्दनाभिनन्दनं जयतु-जयतु संस्कृतम्॥ आगता समागता……
-डॉ. सन्तोष कुमार काण्डपालः
(संस्कृताध्यापकः गोवर्धनलाल त्रेहन सरस्वती बाल-मंदिर वरिष्ठ-माध्यमिक-विद्यालयः, नेहरु नगरम् , नव-देहली)