
-अधिकारिभिस्सह गोष्ठी सम्पादिता ।
कुलदीपमैन्दोला हरिद्वार। उत्तराखण्डस्य संस्कृतशिक्षा मन्त्री डॉ. धनसिंहरावत: संस्कृतशिक्षानिदेशालये, रानीपुरझालहरिद्वारे संस्कृतशिक्षा निदेशालयस्य, उत्तराखंडसंस्कृतशिक्षापरिषद: एवम् उत्तराखंडसंस्कृत-अकादम्या: अधिकारिभिस्सह आवश्यकसंगोष्ठीं सम्पादितवान् । अवसरेस्मिन् तेन प्रोक्तं यत् संस्कृतम् अस्माकं संस्कृते: सर्वोत्तमम् अभिन्नम् अङ्गम् अस्ति। अस्माकं मूलभाषाया: संस्कृतत: एव सनातनसंस्कृते: परिचय: विद्यते । विद्यालयेषु संस्कृतभाषाया: अध्ययनाय वयं कटिबद्धा: स्म: ।
गोष्ठ्यां सर्वसम्मति: जाता यत् दिनांकत: 08 अगस्तत: राजभवनात् एव संस्कृतसप्ताह: प्रारप्स्यते । विदितमस्ति यथा संस्कृतशिक्षानिदेशालय: देहरादूने आसीत् साम्प्रतं हरिद्वारे संस्कृतभवने संलग्न: जात: यद्यपि संस्कृतनिदेशालयस्य भूमिश्च भवनस्थानम् आसीत् यथापि परिवर्तितं जातं ।
प्रतिवर्षे उत्तराखण्डप्रदेशे संस्कृतदिवस: समाचर्यते । श्रावणस्यपूर्णिमायां रक्षाबन्धनपर्वणि संस्कारपूर्वकं कार्यक्रम: भवति । तदनुसारेण संस्कृतशिक्षापरिषत् संस्कृतभारती-उत्तराञ्चलम् एवञ्च उत्तराखण्ड-संस्कृत-अकादमी, संस्कृतशिक्षानिदेशालय: तथा च शिक्षाविभाग: प्रतिवर्षे संस्कृतदिवसमाचरन्ति । दिवसविशेषम् समाचरितुं संस्कृतशिक्षामन्त्रिणा अधुना सर्वै: सह विशिष्टवार्ता सम्मेलनरूपेण समाचरिता ।