
भवनै: भरितं शकटै: खचितम्,
सततं हि चकास्ति च दीपमयम्।
त्वयि भाति सखे! यदिदं नगरम्,
शृणु तत्र किमस्ति नु दूषणकम्।।१
पठिता: लिखिता: सुजना: नगरे,
विलसन्ति सुशिक्षितलोकगणे।
यदि तन्मननं हृदयेSस्ति सखे!
भ्रमितोSसि तदा सुतरां शृणु मे।।२
बहुभोगविलासमये नगरे,
गागनोत्थगृहे सुविधानिचये।
न्युषितुं तव चापि मन: कुरुते,
युवराजकथां खलु क: शृणुते? ।।३
प्रभुभक्तिसमर्चनतारहिते,
सहयोगधियापि तथा विमुखे।
मदिरामदमत्तकुनृत्यमये,
नव जीवनमिच्छसि किं सुसखे!।।४
मदमारहता: युवतीयुवका:,
बहु कृत्त्रिमवेशयुता: सुमुखा:।
चलदृश्यविलोकनतो मुदिता:,
किमु सन्ति च ते मनसा सुखिता:?।।५
वदने मधुरा: विलसन्ति गिर:,
हृदयेSस्ति घृणा बहुधा भरिता।
परिधानसुशोभितशिष्टकला,
व्यवहारमतिश्च सदा कुटिला।।६
शृणु पौरनृणां हृदयाणि भृशम्,
निगदामि भवन्ति सखेSत्र कथम्।
लघुकानि विकारकराण्यनिशम्,
कठिनानि दयारहितानि पुन:।।७
धनसम्पदमेव समाश्रयणम्,
मनसेप्सितमस्ति च कृष्णधनम्।
निज सौधविवर्धनमेव मतम्,
सकलं नगरं विषये निरतम्।।८
धनदुर्मदमत्तजनाः नगरे,
विलसन्तितमां सुसभासु समे।
सुजना: कवय: सुधियश्च सखे!
प्रभवन्तु कथं प्रतिभाप्रसरे? ।।९
धनिनां चरणेषु नता प्रतिभा,
सुखसाधनलाभकृते निहता।
सुमति: नगरेSस्त्युपचारगता,
नगरे विफलन्ति सुकर्मपरा:।।१०
रचयिता
युवराज भट्टराई