-संस्कृतभारत्या: सम्भाषणपद्धति: सर्वत्र संस्कृतवार्तालापस्य सर्वोत्तमा प्रक्रिया अस्ति–डा.अरुणिमा
कुलदीपमैन्दोला । कोटद्वार। उत्तराखण्ड। सरस्वतीविद्यामन्दिरजानकीनगरे-कण्वनगरीकोटद्वारे संस्कृतभारतीद्वारा दसदिवसीयसरलसंस्कृतसम्भाषणशिविरं संजायते । अवसरेत्र राजकीय-इंटर-कालेज-काण्डाखालस्य शारीरिकशिक्षक: संस्कृतभारत्या: सम्पर्कप्रमुख: राकेशकण्डवाल: संस्कृतभाषाया: उपयोगिताविषये योगविषये छात्रान् सम्बोधितवान् प्रोक्तं च संस्कृतछात्रा: विदेशेपि पूज्यन्ते । सहैव पंकजध्यानी कपिलध्यानी च सहशिक्षक: सिद्धार्थनैथानी शिक्षणे सहयोगं कृतवन्त: ।
शिविरस्य पञ्चमदिवसे राजकीयस्नातकोत्तरमहाविद्यालयस्य शिक्षाशास्त्रस्य असि.प्रो.डा.सुषमाभट्टथलेडी सर्वेषाम् कृते मार्गदर्शने उक्तवती यत् संस्कृतम् अस्माकम् आचरणव्यवहारस्य भाषा अस्ति । वयम् सौभाग्यशालिन: यत् वयं दशदिवसे संस्कृतसम्भाषणेन संस्कृतकथने दक्षा: भवाम: । सहैव संस्कृतविभागस्य असि. प्रो. डा.अरुणिमावर्याद्वारा संस्कृतसम्भाषणस्य बिन्दूनाम् अभ्यासं कारितं च प्रोक्तं यत् संस्कृतभारत्या: सम्भाषणपद्धति: सर्वत्र संस्कृतवार्तालापस्य सर्वोत्तमा प्रक्रिया अस्ति ।
अवसरेस्मिन् शिविरस्य मुख्यशिक्षक: कुलदीपमैन्दोला सम्भाषणाभ्यासं कारितवान् चात्र सहशिक्षक: प्रकाशकैन्थोला सहयोगं कृतवान् । शिविरे प्रधानाचार्य: लोकेन्द्र -अण्थ्वाल: छात्राध्यापिका नाजमीन । अक्षित: , शिखा, सृष्टि: , अनुष्का, स्तुति:, श्लोक: , प्रीति: चादय: उपस्थिता: आसन् ।