
– जगदीशडाभी
मुम्बई । मणिरत्नमस्य बहुप्रतीक्षित-चलच्चित्रं “‘पोन्नियिन सेलवन” इत्यस्य प्रथमं गीतं ‘कावेरी से मिलने’ प्रसारितं जातम् । इदं गीतं तमिल, तेलुगु, कन्नडा, मलयालम, हिंदी च भाषासु प्रसारितं जातम् । प्रथमस्य गीतस्य हिन्दी शीर्षकं ‘कावेरी से मिलने’ वर्तते । गीतस्य संगीतकार: एआर रहमान: अस्ति ।
गायकौ स्वागत राठोड:, पूजा तिवारी च स्त: । गीतकार: महबूब: अस्ति । मद्रास टॉकीज, लाइका प्रोडक्शन्स् इत्येतयोः संस्थासु अस्य चलच्चित्रस्य निर्माणं कृतम् अस्ति । कल्की कृष्णमूर्ति इत्यस्य १९५५ तमे वर्षे प्रकाशितस्य पोन्नियिन् सेल्वनस्य उपन्यासस्य आधारेण अयं चलच्चित्रः द्वयोः भागयोः अस्ति ।
चलच्चित्रे विक्रम:, ऐश्वर्या राय बच्चन:, जयम रवि:, कार्थी, तृषा, ऐश्वर्या लक्ष्मी, शोभिता धूलिपाला, प्रभु, आर सरथकुमार:, विक्रम प्रभु, जयराम:, प्रकाश राज:, रहमान:, आर पार्थिबन: च सन्ति । अग्रिमे ३० सितम्बर् दिनाङ्के एतत् चलच्चित्रं प्रदर्शितं भविष्यति ।