राष्ट्रीय-कर्कटनियन्त्रण-कार्यक्रमस्य मार्गदर्शक: डॉ. नरेशपुरोहितः अवदत् यत् विश्वे व्यापकरूपेण प्रतिवर्षं २१ लक्षजनाः श्वासकोशस्य कर्करोगेण म्रियन्ते। विभीषिकाविद- (एपिडेमियोलॉजिस्ट) एवं- अर्बुदविज्ञाननिवारक- (ऑन्कोलॉजी) विशेषज्ञेन डॉ. पुरोहितेन सर्वेषां कर्करोगाणां ५.९ प्रतिशतं, कर्करोगसम्बद्धानां मृत्योः ८.१ प्रतिशतं च श्वासकोशस्य कर्करोगः भवति इति सः अवदत्।
डॉ. पुरोहितः उक्तवान् यत् श्वासकोशस्य कर्करोगस्य निवारणं कर्तुं शक्यते। सः अवदत् यत् धूम्रपानेन श्वासकोशस्य कर्करोगस्य आशंका २४तः ३६गुणान् यावत् वर्धते। यत्र धूम्रपानरहितानाम् अस्य आशंका ३.५ प्रतिशतं भवति। सः अवदत् यत् भारते २०२५ तमे वर्षे कर्करोगस्य प्रकरणाः २.९८ कोटिः भविष्यन्ति इति अपेक्षा अस्ति।
डॉ. पुरोहितः अवदत् यत् धूम्रपानरहितानाम् अपि धूम्रपानस्य संपर्कात् कर्करोगस्य सम्भावना वर्धते। एतदतिरिच्य वायुप्रदूषणं, विकिरणचिकित्सा, रेडॉनवायुसंपर्कः, एस्बेस्टस-इत्यादीनां कर्करोगजनकानाम् पदार्थानां संपर्कः इत्यादयः अन्ये संपर्काः श्वासकोशस्य कर्करोगं जनयितुं शक्नुवन्ति।हिमसंस्कृतवार्ता