
भारतीय स्वतन्त्रतादिवसः ‘अगस्त’-मासस्य पञ्चदशे (१५ अगस्त) दिनांके राष्ट्रियोत्सवत्वेन आभारते आचर्यते। १९४७ तमे वर्षे ‘अगस्त’-मासस्य पञ्चदशे दिनांके (१५.०८.१९४७) भारतगणराज्यं आंग्लशासनात् स्वतन्त्रमभवत्। अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते। तत्पूर्वं ब्रिटिशजनाः भारतस्योपरि शासनं कुर्वन्ति स्म।
१९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य चतुर्दशे (१४/०८/१९४७) दिनांके मध्यरात्रौ द्वादशवादने आङ्गलीयाः जनाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतदेशात् स्वदेशं प्रति गतवन्तः। अतः तद्दिनं सम्पूर्णे भारते स्वतन्त्रतायाः राष्ट्रियपर्वत्वेन आचर्यते।
स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते। ततः एव अर्थात् रक्तदुर्गादेव प्रधानमन्त्रिद्वारा ध्वजारोहणं भवति तदनन्तरं प्रधानमन्त्रिः सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति। ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति। स्वातन्त्र्यदिने प्रातः अष्टवादने राष्ट्रगानेन सह ध्वजारोहणकार्यक्रमः भवति ततः परं भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति।
राष्ट्रपतेः भाषणानन्तरं भारतगणराज्यस्य प्रधानमन्त्रिः स्वदेशं सम्बोधयति। तस्मिन् दिने भारतीयत्रिवर्णध्वजः (तिरंगा) सर्वत्र विराजते। अस्मिन् वर्षे अस्माकं समेषां भारतीयानां कृते विशिष्टोऽस्ति किमर्थमित्युक्ते १५ अगस्त स्वतन्त्रता दिवस २०२२ इत्यस्य विषयवस्तुः ( थीम ) नेशन फर्स्ट ऑलवेज फर्स्ट’ अर्थात् राष्ट्रोऽयं सर्वोपरिः इत्यस्ति। यदा वयं राष्ट्रं प्रति चिन्तयामश्चेत् तर्हि तदानीमेव अस्माकं मनस्सु राष्ट्रं प्रति समर्पणभावः द्रष्टुं शक्यते।
अस्मिन् क्रमे अस्माकं विद्यालयेऽपि सर्वे छात्र-छात्राश्च उत्साहिताः सन्ति तान् सर्वानपि छात्रान् अस्माकं विद्यालयस्य प्रधानाचार्या श्रीमती वीना गोयल महोदया अभिप्रेरणां प्रदत्तवती यत् सर्वेऽपि छात्राः प्रधानमन्त्रिणा मन की बात अस्य कार्यक्रमस्य योजनानुगुणं “प्रत्येकस्य गृहे राष्ट्रध्वजः, गृहे-गृहे राष्ट्रध्वजः” ( हर घर तिरंगा, घर-घर तिरंगा) अस्य पालनं करिष्यन्ति।
विद्यालयस्य उपप्रधानाचार्या श्रीमती अंजूशर्मा महोदया अपि अस्मान् समये-समये मार्गनिर्देशनं प्रददाति सा उक्तवती यत् अस्माकं विद्यालये अस्मिन् वर्षे संस्कृत सप्ताहस्यावसरे तथा अमृत महोत्सवे संस्कृत विभागे किमपि विशिष्टं स्यात् अतः महोदयायाः निर्देशानुसारम् अस्माकं विद्यालये अस्मिन् वर्षेऽपि विगतेभ्यः वर्षेभ्यः प्रचाल्यमाण: संस्कृत सप्ताहस्याऽपि आयोजनं भविष्यति। प्रत्येकस्मिन् वर्षे श्रावण मासस्य पूर्णिमायां तिथौ “संस्कृतदिनम्” आचर्यते। अतः श्रावण पूर्णिमातः दिनत्रय पूर्वं दिनत्रय पश्चाच्च “संस्कृत सप्ताहः” इति नाम्ना प्रसिद्धोऽस्ति। अस्माकं विद्यालये श्रीगोवर्धनलाल त्रेहन सरस्वती बाल मंदिरेऽपि महतोत्साहेन संस्कृत सप्ताहः आचरिष्यते यस्य कार्यक्रमस्य रूपरेखा एवं प्रकारेणास्ति-
प्रथमे दिवसे रामायणमादाय प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
द्वितीये दिवसे महाभारतम् आदाय प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
तृतीये दिवसे श्रीमद्भगवद्गीताम् आदाय प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
चतुर्थे दिवसे महाकवि कालिदास विषयमादाय प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
पञ्चमे दिवसे महर्षि वेदव्यासमादाय प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
षष्ठे दिवसे संस्कृत कवीनां लेखकानाञ्च विषये प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
सप्तमे दिवसे संस्कृत वांमये ऋषीणां महर्षीणाञ्च योगदानम् अस्मिन् विषये प्रश्नोत्तरीया प्रतिस्पर्धा भविष्यति।
अस्माकं समेषां संस्कृतानुरागिणां कृते महत् प्रमोदस्यावसरोऽस्ति यत् अस्मिन् वर्षे आभारते स्वीय पञ्चसप्तति: (७५) स्वतन्त्रता दिवस: अमृत महोत्सवत्वेन आचरिष्यते। अतः अहं भगवन्तं प्रार्थये यत् अयं “अमृत महोत्सवः” समेषां भारतीयानां कृते अमृतमयः भवतु।
– डॉ. सन्तोष काण्डपालः
(संस्कृताध्यापकः गोवर्धनलाल त्रेहन सरस्वती बाल-मंदिर वरिष्ठ-माध्यमिक-विद्यालयः, नेहरु नगरम् , नव-देहली)