कुलदीपमैन्दोला। कोटद्वार। उत्तराखण्ड। सरस्वतीविद्यान्दिरजानकीनगरे कण्वनगरीकोटद्वारे तुलसीदासजयन्त्या: शुभावसरे रामचरितमानसस्य चौपाई-पाठप्रतियोगिताया: आयोजनं संजातं । कार्यक्रमस्य शुभारम्भ: विद्यालयस्य प्रधानाचार्य: श्रीलोकेंद्र-अण्थवालवर्य: एवं कार्यक्रमसंयोजिका रेखा पुष्पार्चनेन प्रतियोगिताया: प्रारम्भं कृतवन्तौ ।
सर्वप्रथमं कार्यक्रमसंयोजिकया प्रोक्तं यत् गोस्वामीतुलसीदास: एक: महाकवि: एवं साहित्यकार: एव न अपितु एक: महाधार्मिक: तथा समाजसुधारक: अपि आसीत् मध्यकाले हिन्दूसमाज: अनेकदुर्भावनाभिर्ग्रस्त: च दुर्घटनाभिर्ग्रस्त: आसीत् देशस्य धार्मिकस्थिति: अतिचिन्तनीया आसीत् । सर्वत्र आडम्बर: तथा पाखंड: प्रसृत: आसीत् । अस्मिन्समये एतादृशस्य महापुरुषस्य आवश्यकता आसीत् य: धर्मे तथा च समाजे प्रसृतानां दुर्भावनानां निवारणं कर्तुं शक्नुयात् । तुलसीदासेन युगावश्यकता पूरिता च रचनामाध्यमेन धार्मिकपाखणडाम्बराणां तथा सामाजिककुरीतिनां निवारणे बलं प्रदत्तं ।
अनेन प्रकारेण तुलसीदासेन हिन्दूधर्मस्य तथा समाजोद्धारकरूपेण प्रशंसनीयं कार्यं कृत़ं। तत्पश्चात् प्रतियोगितायाम् कक्षा6:त: द्वादशपर्यन्तं प्रतिभागीछात्रछात्राभि: प्रस्तुति: प्रदत्ता । प्रतियोगितायाम् कक्षा8त: व्योमलखेड़ा प्रथमस्थानं , कक्षा11त: नमिताजुयाल द्वितीयं स्थानं एवम् कक्षा11त: मेघा तृतीयं स्थानं क्रमश: प्राप्तवन्त: किया ।अवसरेत्र निर्णायक: अनिलभटनागर:, गौरवबुडाकोटी, कु० पूजा, राकेशचमोली एवं समस्ता: आचार्या: च छात्रछात्रा: उपस्थिता: आसन् ।