
स्कन्दपुराणे एकः सुन्दरः श्लोकः प्राप्यते
अश्वत्थमेकम् पिचुमन्दमेकम्
न्यग्रोधमेकम् दश चिञ्चिणीकान्।
कपित्थबिल्वाऽऽमलकत्रयञ्च
पञ्चाऽऽम्रमुप्त्वा नरकन्न पश्येत्।।
अश्वथ= पीपल (१००% कार्बनडाइऑक्साइड शोषयति।)
पिचुमन्द = नीम (८० % कार्बनडाइऑक्साइड शोषयति।)
न्यग्रोधः= वटवृक्ष (८०% कार्बनडाइऑक्साइड शोषयति।)
चिञ्चिणी = इमली (८०% कार्बनडाइऑक्साइड शोषयति।)
कपित्थ = कवि (८०% कार्बनडाइऑक्साइड शोषयति।)
बिल्वः = बेल (८५% कार्बनडाइऑक्साइड शोषयति।)
आमलकः = आवला (७४% कार्बनडाइऑक्साइड शोषयति।)
आम्रः = आम (७०% कार्बन डाइऑक्साइड शोषयति।)
अर्थात् यः कोऽपि एतेषां वृक्षाणां रोपणं करिष्यति, तेषां पालनं करिष्यति ते नरकं न पश्यन्ति जनाः।कारणं किमस्ति? यतोहि एतस्याः शिक्षायाः वयं अनुसरणं न कृतवन्तः तस्मादेव परिस्थितिरुपेण नरकस्य दर्शनं भवन् अस्ति।वर्तमान परिवेशे प्राणवायु अल्प: अस्ति।कार्बनडाई ऑक्सिदस्य सतरं वर्धते।
इदानीमपि परिस्थितिं नियन्त्रितं कर्तुं शक्यते, स्वत्रुटिं वयं निवारयितुं शक्यन्ते। अपि च गुलमोहर नीलगिरीश्च सदृशाः वृक्षाः अस्माकं देशस्य पर्यावरणस्य कृते घातकाः सन्ति। पश्चिमदेशानामन्धानुकरणेन अस्माकं अत्यधिकहानिः अभवत्। अश्वत्थ, नीम्र, वटादिनां वृक्षाणां रोपणं स्थगनेन शुष्कतायाः समस्या वर्धमाना अस्ति। एते वृक्षाः वातावरणे आक्सीजन इत्यस्य मात्रा वर्धन्ते। अपि च धरायाः तापमानं न्यूनं कुर्वन्ति एते वृक्षाः।
एतेषां वृक्षाणां पूजायाः या परम्परा आसीत् तां अन्धविश्वासमिति मत्वा पाश्चात्यसंस्कृतिं अभिभूय यूकेलिप्टस (नीलगिरी) वृक्षः मार्गस्य उभयतः आरोपणं प्रारब्धवन्तः। यूकेलिप्टस शीघ्रं वर्धन्ति एते वृक्षाः कीचयुक्तमृदां रोपयते यतोहि मृदातः एते जलं अवशोषयन्ति। एतैः वृक्षैः धरायां जलस्तरः न्यूनतां प्राप्नोति। विगत ४० वर्षेभ्यः नीलगिरीवृक्षाणां अधिकाधिक रोपणेन पर्यावरणस्य हानिः अभवत्। शास्त्रेषु अश्वत्थवृक्षः वृक्षाणां राजा इत्यनेन नाम्ना अभिधीयते।
मूले ब्रह्मा त्वचा विष्णु शाखा शंकरमेवच।
पत्रे पत्रे सर्वदेवायाम् वृक्ष राज्ञो नमोस्तुते।।
भावार्थः- यस्य वृक्षस्य मूले ब्रह्मा, स्कन्धे श्रीहरि विष्णु, शाखासु देवाधिदेवः महादेवस्य निवासः वर्तते, प्रत्येकऽस्मिन् पत्रे सर्वेषां देवानां वासः वर्तते, एतादृशाय अश्वत्थवृक्षाय नमोनमः। आगामी वर्षेषु यदि प्रत्येक ५०० मीटर मध्ये अश्वत्थ, वट, पिचुमन्दः वा एतेषां वृक्षाणामारोपणं भवेत् चेत् अस्माकं भारतदेशः प्रदूषणमुक्तः भवितुमर्हति। गृहेषु तुलसीवृक्षारोपणं भवेयुः। संगठितप्रयासेन वयं भारतं नैसर्गिक-आपदया रक्षयितुं शक्यन्ते। आगामी काले प्रकृतिक-आक्सीजन लभ्ये एतस्य कृते अद्येव अभियानस्य आरम्भः भवेत्।
आगच्छन्तु वयं अश्वत्थः,वटः, पिचुमन्दः, आंवलकं, आम्रम् इत्यादिनां वृक्षाणामारोपणं कृत्वा आगामीवंशानां कृते रोगरहितं,सुजलं, सुफलं पर्यावरणं ददमः।अस्माभिः एषः प्रयासः अवश्य करणीयः। परिवारे यस्यापि जन्मदिनं भवेत् तेन वृक्षारोपणं अवश्यमेव भवेत्।