कुलदीपमैन्दोला । हल्द्वानी। उत्तराखण्ड। संस्कृतभारती हल्द्वानी-द्वारा शिवमन्दिर बागजाला गौलापार, हल्द्वानी इत्यत्र संस्कृतदिवसाचरणं कृतम् । अस्मिन् समारोहे क्षेत्रस्य लघुछात्र-छात्राभिः संस्कृतश्लोक-गीत-स्तोत्रादीनि प्रस्तुतानि। कार्यक्रमेस्मिन् मुख्यातिथि रूपेण सेवाभारत्याः प्रान्ताध्यक्षः श्रीमान्. सुदर्शनसिंह राणामहोदयः छात्राणामुत्साहवर्धनं संस्कृतभारती द्वारा क्षेत्रे संस्कृतदिवस कार्यक्रमार्थम् अभिनन्दनं कृतवान् ।
विशिष्टातिथिः श्रीरामसेनायाः प्रान्ताध्यक्षः श्रीमान् प्रकाश सिंह बिष्ट महोदय: अकथयत् यत् संस्कृतभारती देश-विदेशे संस्कृतभाषायाः पुररुत्थानाय व्यापकप्रचारप्रसाराय च कटिबद्धा वर्तते । संस्कृतभाषां विना भारतस्य चित्रमेव विकृतं भविष्यति। कार्यक्रमस्य अध्यक्षरूपेणसंस्कृतभारत्याः प्रान्ताध्यक्षा श्रीमती जानकीत्रिपाठी संस्कृतसप्ताहस्य संस्कृतदिवसस्य च ऐतिहासिकं स्वरुपं प्रकटितवती। कार्यक्रमे उधमसिंहनगर जनपदसंयोजक: डॉ. जगदीशचन्द्रपाण्डेयः प्रस्ताविकं प्रस्तुतवान् । कुमाऊँसम्भागसंयोजकः डॉo चन्द्रप्रकाशःउप्रेती संस्कृतभारत्याः विविधायामानां सविस्तरं वर्णनंकृत्वा संघटनस्वरूपं प्रस्तुतवान् ।
सम्भागसम्पर्क प्रमुख प्रकाश भट्ट महोदयः अतिथसत्कारं कृतवान् । जनपदसंयोजक: डॉ॰ नीरजजोशी कृतज्ञताज्ञापनं डॉ॰ हेमन्त जोशी महोदयश्च संचालनं कृतवान् ।नैनीतालविभागसहसंयोजक: जगदीशचन्द्र जोशी महोदय: गीतमगायत् । अस्मिन् कार्यक्रमे हिमानीजोशी- लालकुऑ संयोजिका,तनुजा जोशी- गरुडनगर संयोजिका इति दायित्वद्वयमपि उद्घोषितम्|। कार्यक्रमे डॉ कैलाशसनवाल, डॉ ललित पाण्डे, भास्कर,विनोद, दीपा पाण्डेय, कुन्दनसिंहविष्ट, सूरज भट्ट, वैष्णवी, विदुषी रोहितादयः अनेके कार्यकर्तारः उपस्थिताः आसन् ।