
– जगदीश डाभी
अहमदाबाद। संस्कृतभारतीपालिताना, श्रीमती पी.एन.आर.शाह महिला महाविद्यालय: पालिताणा तथा अनौपचारिक संस्कृत शिक्षणकेंद्रमित्येतेषां संयुक्तोपक्रमेतालुकास्तरीयसंस्कृत सप्ताहोत्सवस्य समायोजननम् अभूत् । तत्र संस्कृतभारतीसौराष्ट्रप्रान्त मन्त्री श्रीमान् डॉ पङ्कज त्रिवेदीवर्या: अनौपचारिकसंस्कृतशिक्षकः श्रीमान् अमरसिंह: संस्कृतभारतीनगर संयोजिका कु. कामलिया कृपाली साप्ताहिकमेलनसंयोजिका कु.दिलशाद पाटडीया बालकेंद्र -संयोजिका कु.माया बोरीचा एताः उपस्थिता: आसन् ।
मङ्गलाचरणपुरस्सरम् दीपस्तुतिना कार्यक्रमोsरब्ध: । कार्यक्रमे मुख्यवक्तृरूपेण त्रिवेदिवर्येण संस्कृताय जीवनम् इति उद्बोधनं कृतम् । त्रिवेदिवर्येण संस्कृतं किमर्थम् इति विषये स्वविषयं प्रकटीकृतम् । कार्यक्रमस्यास्य रूपरेखा कु. कामलिया कृपाल्या उद्घोषिता । सप्ताहपर्यन्तम् कथम् आयोजनम् अस्तीति सम्मुखीकृतम् । तत्र पालितानोपखंडतः सर्वेषु विद्यालयेषु छात्राः स्पर्धासु भागं गृहीतवन्तः ।
तत्र श्लोकपाठस्पर्धा श्रुतलेखनस्पर्धा आस्ताम्। निर्णायकरूपेण तत्र श्रीमती डॉ.माधवी व्यास तथा श्रीमान् अमरसिंह: अवर्तेताम् । माधवी व्यास महोदयया अपि छात्रा: बोधिता: । परिणामस्य घोषणा अमरसिंहेन कृता। एतेषु प्रथमद्वितीयतृतीयस्थानप्राप्तवद्भ्य: अन्ते पारितोषिकं भविष्यति । श्लोकपाठे चौकसी श्लोक: प्रथमस्थानं प्राप्तवान् । श्रुतलेखने च परमार दर्शन प्रथमम् स्थानं प्राप्तवान् ।
तत्तत् विद्यालयानां शिक्षका: अपि उपस्थिताः आसन् । श्रीमान् सञ्जय:, श्रीमान् राजन् , श्रीमान् भावेश: श्रीमान् दिलिपः इत्येते अवर्तन्त । कार्यक्रमस्य सञ्चलानम् कु. जोशी हिनल कृतवती । सर्वेषाम् आभारप्रकटनम् कु. दर्शना कृतवती। इत्थं कार्यक्रम: समाप्तिम् अगात् । कार्यक्रम: सप्ताहपर्यन्तं प्रतिदिनं स्पर्धारूपेण भविष्यति अन्ते च समारोपसमारोहे पारितोषकवितरणं भविष्यति ।