
-जगदीश डाभी
महदामोदस्य विषयोऽयं यदस्माकं आयुषग्रामगुरुकुलीय साधनाकुटीरे पावनश्रावणीपर्वणि आदरणीयाः डॉ आचार्याः मदनगोपालमहोदयानामाध्यक्षे गुरुकुलस्य प्राचार्याः गिरीशबहुगुणामहोदयानां मार्गदर्शने आ0 सीमामहोदयानां साहाय्येन वेदाचार्यप्रदीपमहोदयानां वैदिकमन्त्रोद्घोषेण डॉ. वेदप्रतापवाजपेयीमहोदयानां सामाजिक विषय विशेषज्ञानामाचार्य पुष्पेन्द्रतिवारि महोदयानां गणिताचार्याश्शिवसागर अमितपाण्डेय महोदययोरुभयोः साहित्यपदमलङ्कर्तृणां दीपक रतडीमहोदयानां आंग्लभाषाचार्याःराहुलद्विवेदिमहोदयानां विज्ञानाचार्याः अमितसचानमहोदयानां पावनमुपस्थितौ सर्वैरपि सम्मिल्य श्रावणी उपाकर्मणः अनुष्ठानमनुष्ठीतवन्तः ।
श्रृङ्खलायामस्यां आचमनं, पवित्रीकरणं, आसनशुद्धीत्यादिकं , पवित्रीधारणं, प्राणायामं, दशविधिस्नानं, पञ्चगव्यप्राशनं, जीर्णयज्ञोपवीत परित्यागपुरस्सरं नूतनयज्ञोपवीतधारणं, सर्वैरपि सम्मिल्य श्रावणी उपाकर्मणः अनुष्ठानमनुष्ठीतवन्तः। आयुषग्रामचिकित्सालयस्यवरिष्ठतमचिकित्सकाः तत्रभवन्तश्श्रीमन्तः आचार्याः पूज्यपादाः मदनगोपालमहोदयाः संस्कृतदिवसमालक्ष्य संस्कृतसंस्कृतिसंरक्षणं कथं भविष्यतीति शिष्यान्बोधयन्मार्गं प्रशस्तीकुर्वनुक्तवन्तः यद्
यत्वस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ।।
अर्थाद्यथाग्निः इन्धनं दहति तद्वदेव पञ्चगव्यप्राशनेनास्थिनिष्ठपापानामपाकरणं प्रसह्य भवतीति । अन्ते प्रतिष्ठिताचार्याः वेदज्ञाः प्रदीपमहोदयाः याज्ञिकत्वेनेष्टिं सुसम्पाद्य नैवेद्यं विनिवेद्यनपूर्वकं प्रसादवितरणं कारितवन्तः ।