उत्तराखण्ड, जगदीश डाभी । भवद्भ्यो सर्वेभ्यो संस्कृतप्रेमीभ्यो हर्षेण सूचयते यत् गतवर्षसदृशेव अस्मिन् वर्षे$पि जनपदस्तरीय चतुर्थ संस्कृतछात्रक्रीडाप्रतियोगिता आयोजनं क्रियते।विगतवर्षे ब्रिगेडियर-विद्याधर-जुयाल-संस्कृतविद्यालय-भुवनेश्वर्यां अस्या: जनपदस्तरीय क्रीडा प्रतियोगितायाः भव्यरूपं आसीत, पौडी जनपदस्थ समस्त संस्कृतविद्यालयानां प्रतिभागिनां उत्साहपूरेण भागं गृहितवन्त:।क्रमे$स्मिन् वर्षे अस्या: क्रीडाप्रतियोगिताया: आयोजनं संस्कृत-महाविद्यालय-स्वर्गाश्रम-ऋषिकेशे भविष्यति।
कार्यक्रमस्य आयोजनं नवम्बर मासस्य २० दिनाङ्कात आरभ्य:२२ दिनांकपर्यन्तं भविष्यति।
सर्वप्रथमं 2018 तमे वर्षे अस्या प्रतियोगिताया: चिन्तनं अस्माकं सर्वेषां मार्गदर्शक: डॉ. वाचश्रवा आर्य महाभागा: कृतवन्त:।, तदारभ्य: अस्या प्रतियोगिताया: साफल्यं तेषाम मार्गदर्शनेन उत्साहपूर्वेण समाचर्यते,।प्रतियोगिताया: आयोजनस्य व्यय: सर्वे जनपदीय आचार्या: मिलित्वा स्वयमेव विना सर्वकारीय सहाय्येन कुर्वन्ति।
अस्मिन् वर्षे स्वर्गाश्रम ऋषिकेशे डॉ. पद्माकर मिश्र जी संस्कृत उपनिदेशकः पौडी इत्यस्य नेतृत्वे प्रतियोगिता भविष्यति।प्रतियोगिता विषये मे जनपदीय क्रीडा समिति सचिव नवीन जुयालवर्येण उक्तं यत्
बौद्धिकप्रतियोगितायाः अन्तर्गतम्
(1) सामान्यज्ञानप्रतियोगिता
(2)श्री सूक्त स्मरण प्रतियोगिता
(3) अष्टाध्यायी सूत्र कण्ठस्थीकरण प्रतियोगिता।
अन्ये- (1) वॉलीबॉल स्पर्धा।
(2) कबड्डी
(3) टोइंग रज्जु
(4) धाव – 100 मीटर वरिष्ठ एवं कनिष्ठ वर्ग
(5) धाव – 400मी
(6) धाव – 1500मी
(7) दीर्घकूद – वरिष्ठ एवं कनिष्ठ
(8) उच्चकूद – वरिष्ठ एवं कनिष्ठ
(9) शतरंजप्रतियोगिता –
आशास्ति यत् सर्वेषु मण्डलेषु एतादृशाः स्पर्धाः आयोजिताः भवेयुः येन राज्यस्तरपर्यन्तं राष्ट्रियस्तरपर्यन्तं च महता प्रकारेण आयोजनं कर्तुं शक्यते।
चतुर्थ पौडी जनपद संस्कृतछात्रक्रीडाप्रतियोगितायां भवतां सर्वेषां हार्दिकं स्वागतं अभिवादनम्।
जयतु संस्कृत जयतु भारतम्