उत्तराखण्ड, कुलदीपमैन्दोला। उत्तराखण्डस्य रुद्रप्रयागजनपदे महाकविकालिदासजन्मभूस्मारकसमितिद्वारा कविल्ठाग्रामे त्रिदिवसीयकालिदाससम्मानसमारोह: समायोजित: । आयोजनसौन्दर्ये बहुसंगठनानां च ग्रामीणां महत्वपूर्णभूमिका आसीत् । समारोहे बहुरंगसांस्कृतिकार्यक्रमा: अभवन् तथा च विदुषाम् आचार्याणां संयोगे शोधवाचनं संजातं । समारोहेस्मिन् केन्द्रीयगढ़वालविश्वविद्यालयस्य संस्कृतविभागस्य डा. आशुतोषगुप्तावर्या: 2022 वर्षस्य कालिदाससम्मानेन सम्मानितोभवन् ।
समापने गढवालविश्वविद्यालयस्य कुलसचिव: डा. अजयखण्डूरी मुख्यातिथिरूपेण प्रोक्तवान् यत् कालिदासस्य प्रेम हिमालयं प्रति अतिगहनमासीत् । तै: संस्कृतमहाकाव्येषु हिमालयस्य वर्णनं कृतं । समारोहे नित्यानंदपोखरियाल:, डा. यशोदाखण्डूरी, डा. भानुप्रतापडिमरी तथा च कवियत्री उपासना सेमवाल: महाकविकालिदासस्य संस्कृतमहाकाव्यविषये विस्तरेण चर्चां कृतवन्त: समारोहस्य अध्यक्ष: संस्कृतनिदेशक: श्री शिवप्रसादखालीवर्य: उक्तवान् यत् महाकविकालिदाससम्मानसमारोहाय भव्यरूपं प्रदातुं तथा पर्यटनविभाग:, संस्कृतिविभागश्च प्रदेशसर्वकार: प्रयत्नं कुर्यु: ।
अत्र मंत्री सुरेशानन्दगौड़: कार्यक्रमस्य समापनसमारोहसंचालनं कृतवान् । अवसरेस्मिन् सर्वं प्रति विनयावनतं भवन् डा.गुप्ता उत्तराखण्डमहाकविकालिदासजन्मभूस्मारकसमितिकविल्ठाया: रुद्रप्रयागं प्रति अन्तःकरणात् आभारं प्रकटितवान् । तेन भावसम्मानस्य आभारे कथितं यत् निश्चयमेव देवभूमौ सर्वं दैवीयं विद्यते । पित्रो: च गुरो: प्रसादेन आशीर्वादेन तथा च मित्राणां शुभकामनया सम्मानमिदं सम्प्राप्तं ।