
केन्द्रीयगृहमन्त्रालयेन उक्तं यत् राष्ट्रियनीतिकार्ययोजनायाः दृढकार्यन्वयनात् अष्टवर्षस्य अवधिमध्ये नक्सलीजनानाम् हिंसकघटनानां संख्यायां ५५ प्रतिशतं न्यूनता, तेषां कारणेन मृत्योः च ६३ प्रतिशतं न्यूनता अभवत् .
गृहमन्त्रालयस्य वार्षिकप्रतिवेदनस्य २०२१-२२ अनुसारं २०१३ तमे वर्षे नक्सलहिंसायाः १,१३६ घटनाः अभवन्, २०२१ तमे वर्षे ५०९ यावत् न्यूनीकृताः तथैव नक्सली-आक्रमणेषु मृतानां संख्या ६३ प्रतिशतं न्यूनीकृता अस्ति, यत् २०१३ तमे वर्षे ३९७ आसीत्, २०२१ तमे वर्षे १४७ अभवत् ।
२०२० तमस्य वर्षस्य तुलने २०२१ तमे वर्षे हिंसायाः घटनासु २४ प्रतिशतं, मृत्योः २० प्रतिशतं च न्यूनता अभवत् इति प्रतिवेदने उक्तम् । २०२० तमे वर्षे ६६५ हिंसकघटनानां प्रकरणाः ज्ञाताः, ये २०२१ तमे वर्षे ५०९ यावत् न्यूनीकृताः । तथैव २०२० तमे वर्षे हिंसकघटनासु १८३ मृत्योः प्रकरणाः ज्ञाताः, ये २०२१ तमे वर्षे १४७ इत्येव न्यूनाः अभवन् ।