
हरियाणा, कुलदीपमैन्दोला । संस्कृतभारत्या: अखिलभारतीयगोष्ठ्यां एवं महिलासम्मेलने सम्प्राप्य केन्द्रीयशिक्षा राज्यमंत्री अन्नपूर्णा देवी स्ववक्तव्ये उक्तवती यत् राष्ट्रीयशिक्षानीतिद्वारा संस्कृतं प्रभावपूर्णभाषा भविष्यति । पानीपतस्य पट्टीकल्याणाक्षेत्रे त्रिदिवसीये कार्यक्रमे तया प्रोक्तं यत् केंद्रस्य नरेंद्रमोदीसर्वकारस्य विचार: संस्कृतं प्रतिजनं सम्प्राप्तुम् अस्ति । तद्ध्यानाद् त्रिभाषासूत्रे संस्कृताय प्रमुखस्थानं प्रदत्तं । तया बलं प्रदत्तं यत् संस्कृतं जनभाषां कर्तुं राष्ट्रीयशिक्षानीति: आधरकार्यं करिष्यति ।
सेवासाधनाश्रमे कार्यक्रमाध्यक्षता संस्कृतभारत्या: अखिलभारतीयाध्यक्ष: प्रो. गोपबंधुमिश्र: कृतवान् । विशिष्टातिथिरूपेण हरियाणासर्वकारे परिवहनमंत्रीमूलचंदशर्मा उपस्थित: आसीत् । प्रदेशस्य परिवहनमन्त्रिणा मूलचंदशर्मावर्येण प्रोक्तं यत् हरियाणाप्रदेशस्य नारीशक्ते: कृते कस्यचिदपि परिचयस्य आवश्यकता नास्ति । कल्पना चावला, संतोषयादव: आदय: अन्तर्राष्ट्रीयस्तरे देशस्य नाम प्रकाशितवत्य: संस्कृतं जनभाषा भवेत् तदर्थं सर्वै: मिलित्वा प्रयास: कर्तव्य: बने।
संस्कृतभारत्या: अखिलभारतीयाध्यक्ष: प्रो.गोपबंधुमिश्रवर्येण प्रोक्तं यत् संस्कृतभाषा कठिनभाषा नास्ति। यथा सरलता संस्कृते अस्ति तथा अन्यभाषासु नास्ति। सम्मेलने महिलाकार्यकर्त्र्य: स्वस्वप्रांतस्य वेशभूषायां सुसज्जिता: सम्प्राप्ता: । द्विसहस्राधिका: महिलाकार्यकर्त्र्य: सम्पूर्णदेशात् सम्प्राप्ता: । विशेषमत्र संस्कृतप्रदर्शनी आकर्षणकेंद्रे अस्ति।
संस्कृतमयवातावरणसन्दर्भे प्रान्तप्रचारप्रमुख: सतेंद्रकुमार: उक्तवान् यत् द्विशतादधिकार्यकर्तृणाम् उत्तरदायित्वे संस्कृतप्रदर्शनी च साहित्यपुस्तकापणं विशेषाकर्षणे स्त: । राष्ट्रीयस्तरे संस्कृतभारत्या: प्रथममायोजनम् अस्ति। आयोजने संस्कृतभारत्या: महामंत्री श्रीशदेवपुजारी, अखिलभारतीय-संगठन-मंत्री दिनेशकामत:, सहसंगठनमंत्री जयप्रकाश:, उतरक्षेत्रसंगठनमंत्री नरेंद्रकुमार:, प्रदेशाध्यक्ष: डॉ.रामनिवास: आ़दय: उपस्थिता: आसन् ।