
तकनीकी-अवरोधस्य कारणात् बुधवासरे मुम्बई-नगरस्य ‘लाइफ-लाइन’-मध्य-पश्चिम-रेल-मार्गस्य स्थानीय-रेलयानानां गतिः प्रभाविता अभवत् । स्थानीयरेलयानानि विलम्बेन प्रचलन्ति। अस्य रेलमार्गस्य यात्रिकाः समस्यानां सम्मुखीभवन्ति।
अन्धेरी-जोगेश्वरयोः मध्ये पश्चिमरेलमार्गे संकेतव्यवस्थायां दोषस्य कारणेन एषा स्थितिः आगता अस्ति । पश्चिमरेलवे इत्यस्य तकनीकीदलः समस्यायाः निवारणाय प्रयतते। अस्य दोषस्य कारणात् उभयमार्गेषु उपरि अधः च द्रुतगतिना स्थानीयरेलयानानि मन्दवेगेन चाल्यन्ते । पश्चिमरेलमार्गस्य प्रवक्ता अवदत् यत् शीघ्रमेव स्थितिं सामान्यीकर्तुं प्रयत्नाः क्रियन्ते।
केन्द्रीयरेलमार्गे कल्याण-सीएसएमटी-स्थानकयोः मध्ये तकनीकीदोषात् स्थानीयरेलसेवा प्रभाविता भवति । प्रातःकालादेव रेलयानानि अर्धघण्टायाः अधिकं विलम्बं कुर्वन्ति। केन्द्रीयरेलमार्गस्य प्रवक्ता अवदत् यत् शीघ्रमेव स्थानीयसेवा सामान्यीकृता भविष्यति।