
मद्यनीतिघोटाले प्रवर्तननिदेशालयेन महत् प्रकटीकरणं कृतम् अस्ति। ईडी इत्यस्य दावानुसारं दिल्ली उपमुख्यमन्त्री मनीष सिसोदिया सहिताः ३४ वी.आइ.पी. जनाः डिजिटल साक्ष्यं मेटयितुं १४० फोनानां आदान प्रदानं कृतवन्तः । अस्मिन् प्रकरणे प्रायः १०० कोटिरूप्यकाणां घूसः दत्तः । आबकारीनीतिः सार्वजनिका भवितुं पूर्वमपि लीक् अभवत् ।
अस्मिन् घोटाले गुरुवासरे ईडी-संस्थायाः द्वौ जनौ गृहीतौ आस्ताम् । एतेषु फ्रांसदेशस्य मद्यकम्पन्योः पेर्नोड् रिकार्ड् इत्यस्य दिल्लीक्षेत्रीयप्रमुखः बिनोयबाबूः, औरोबिण्डो फार्मालिमिटेड् इत्यस्य निदेशकः पी सारथचन्द्ररेड्डी च सन्ति । ते पीएमएलए न्यायालये प्रस्तुताः।
ईडी न्यायालयं न्यवेदयत् यत् आबकारीनीतिः २०२१ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के सार्वजनिका अभवत्, यदा तु मे-मासस्य ३१ दिनाङ्के केभ्यः मद्यनिर्मातृभ्यः लीक् अभवत् । अस्मिन् घोटाले बिनोयबाबूः महत्त्वपूर्णः पात्रः अस्ति । सः मद्यबरोन् समीर महेन्द्रेण सह अनैतिकरूपेण विक्रेतृणां समूहं निर्मितवान् ।