
जयपुरम्,जगदीश डाभी । केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरे राष्ट्रिय-शिक्षादिवस-महोत्सवस्य आयोजनं जगद्गुरुरामानन्दराजस्थानसंस्कृत विश्वविद्यालयस्य कुलपतिवर्यस्य प्रो. रामसेवकदुबेमहोदयस्य मुख्यातिथित्वे, सीकरसंसदक्षेत्रस्य सांसदमहोदयस्य स्वामिसुमेधानन्दसरस्वतीवर्यस्य विशिष्टातिथित्वे परिसरनिदेशकमहोदयायाः प्रो. भगवतीसुदेशमहोदयायाः आध्यक्ष्ये समभवत् । कार्यक्रमस्यारम्भे शिक्षाशास्त्रविद्याशाखायाः छात्रैः वैदिकं मङ्गलं स्वागतगीतं च प्रस्तुतम् । प्रास्ताविकं स्वागतभाषणं च बहुविषयकविज्ञानतकनीकविद्यास्थानस्य संकायप्रमुखेन प्रो. वाई.एस्.रमेशमहोदयेन कृतम् ।
कार्यक्रमस्य मुख्यातिथिः स्वामिसुमेधानन्दसरस्वतीमहोदयः अकथयत् यद् भारतवर्षस्य प्राथमिकम् अभिज्ञानं संस्कृतं संस्कृतिश्च विद्यते । सांसदमहोदयेन कथितं यन्मया विश्वस्य बहुषु देशेषु संस्कृतप्रचाराय पर्यटनं कृतमस्ति । अस्माभिः सर्वैः वेदवाङ्मये विद्यमानानां विविधविद्यानां सम्प्रचारः अवश्यं करणीयः । संस्कृतं भारतस्य सांस्कृतिकभाषा विद्यते । अस्यां ज्ञानविज्ञानयोः महती परम्परा अद्यापि अविच्छिन्ना वर्तते ।
कार्यक्रमस्य विशिष्टातिथिः जगद्गुरुरामानन्दराजस्थानसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. रामसेवकदुबेमहोदयः उक्तवान् यत् सा विद्या या विमुक्तये इत्युपनिषद्वचनेन विद्यास्वरूपमवगम्यते । विद्याशब्दः शिक्षापरपर्यायोऽपि विद्यते । वस्तुतः सच्चरित्रनिर्माणमेव शिक्षायाः मूलभूतं प्रयोजनम् अत एव आचारं ग्राहयति आचिनोत्यर्थान् इत्यादयः निरुक्तयः आचार्यपदस्य दृग्गोचरीभवन्ति । यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव इति कविकुलगुरुवचनेन आदर्शशिक्षकस्य स्वरूपं भारतीयज्ञानपरम्परायामभिव्यक्तम् ।
कार्यक्रमस्य आध्यक्ष्यं कुर्वत्या परिसरनिदेशकमहोदयया प्रो. भगवतीसुदेशमहोदयया निगदितं यद् भारतवर्षस्य प्रथमशिक्षामन्त्रिणः मौलाना अबुलकलाम-आजादस्य जन्मतिथौ भारतसर्वकारस्य निर्देशानुसारेण शिक्षादिवसः समाचर्यते । शिक्षा अस्माकं संवेदनां दृष्टिं च विकासयति । शिक्षायाः उत्कर्षेण एव राष्ट्रस्य सर्वविधो विकासः सञ्जायते । सभ्यमानवस्य निर्मितौ शिक्षायाः अनन्यसाधारणी भूमिका विद्यते । उच्चशिक्षाक्षेत्रे प्रथमशिक्षामन्त्रिणः अबुलकलाम-आजादस्य महत्त्वपूर्णं योगदानमस्ति । कृतज्ञतानिवेदनं शिक्षाशास्त्रविद्याशाखायाः अध्यक्षः प्रो. फतेहसिंहमहोदयः। सत्रसञ्चालनं च शिक्षाशास्त्रविद्याशाखायाः प्राध्यापिका डॉ. रेखा शर्मा अकरोत् ।