-आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता
जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता “online संस्कृतशिक्षणम्” (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ भवति । अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति ।
अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्त: च स्त: । सहायका: अमित: ओली, शिवा शर्मा च सन्ति ।
अस्या: प्रतियोगिताया: प्रायोजक: देहली प्रदेशत: लोकभाषा-प्रचार-समित्या: उपाध्यक्ष: डॉ. कुन्दनकुमार: अस्ति ।
गतरविवासरे 13/11/2022 तमे दिनाङ्के प्रतियोगितायाम् 182 जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रय: जनाः उत्तरं दत्तवन्त: तेषां नामानि –
प्रथम: विजेता अनुपम मान्ना, पश्चिमबङ्गालम्
द्वितीय: विजेता जगदीश पंत:, उत्तराखंडम्
तृतीय: विजेता डॉ. महेन्द्र कुमार चौधरी, राजस्थानम्
प्रथमविजेतुः कृते पुस्तकं उपहाररूपेण प्रेषितं भविष्यति, आगामिनी संस्कृत-प्रश्नोत्तरी प्रतियोगिता शीघ्रमेव भविष्यति।