रघु वत्स:
चण्डीगढ़ : २०२१ वर्षस्य संस्कृतपुरस्कारा: हरियाणा संस्कृत अकादमी माध्यमेन घोषिता:, यस्मिन् भारतसंस्कृतपरिषद:, हरियाणाया: उपाध्यक्षा डॉ. गीता आर्या संस्कतस्य कृते बाणभट्टसम्मानार्थं चयनिता अस्ति। सा विद्यावारिधि: इति उपाधिम् स्वीकृतवान्, सम्प्रति सा स्वातन्त्रस्य अमृतमहोत्सवस्य विषये पुस्तकद्वयं लिखितवती, चयनसमित्या: विभिन्ना: विद्वास: अपि अनयो: पुस्तकयो: बहु प्रशंसाम् अकरोत्।
संस्कृताय समर्पित:, विभिन्नेषु संस्कृतग्रन्थेषु सक्रिय रूपेण भागं गृह्णाति। तस्या: पिता श्री जोगेन्द्र सिंह: अपि शिक्षायां बहु रुचिं लभते, तस्या: अनुज: डॉ. किशन प्रताप: दार्शनिकचिंतनं लेखनं च कुर्वन् अस्ति संस्कृत क्षेत्रे। डॉ. आर्याया मार्गदर्शनेन हरियाणा संस्कृत अकादमी माध्यमेन आयोजिते विश्वबालप्रतियोगितायां मीरा सिंह: प्रथम स्थानं प्राप्तवान, तथैव गीता महोदया संस्कृतस्य कृतीषु संलग्न: अस्ति।
विद्यालयेषु अन्येषु च संस्थाषु छात्रान् संस्कृतपठनाय, संस्कृत भाषायां च प्रेरयन्ति। भारत संस्कृत परिषद: अस्य सुयोग्य चयनस्य कृते राज्यस्य मुख्यमंत्री श्री मनोहर लाल खट्टर महोदय, हरियाणा संस्कृत अकादमी निदेशकं डॉ. दिनेश शास्त्री महोदय च चयन समित्या: सर्वविद्वांसा: प्रति आभारं प्रकटयति।