-संस्कृतभारत्या: रुड़कीकार्यकर्तृणां संस्कृतसंभाषणशिविरसंचालनाय पंचदिवसीयप्रशिक्षणकार्यशाला संजायते
कुलदीपमैन्दोला । उत्तराखण्ड
13 .11. 2022 दिनांके नवलकिशोरपन्तस्य आवासे, सुभाषनगरे संस्कृतभारत्या: रुड़कीकार्यकर्तृणां संस्कृतसंभाषणशिविरसंचालनाय पंचदिवसीयप्रशिक्षणकार्यशाला द्वितीयदिवसे अपि समायोजितोभवत् । यस्य शुभारम्भ: संस्कृतभारती-उत्तरांचलस्य संगठनमंत्री श्री गौरवशास्त्री, अतिथि: कन्हैयालालपॉलिटेक्निकरुड़कीत: डॉ फणींद्रमिश्रा च संस्कृतभारती-उत्तरांचलस्य हरिद्वारजनपदशिक्षणप्रमुख: आचार्यविष्णुदत्तगौड़: एवं श्री नवलकिशोरपंत: सरस्वतीमातु: चित्रसमक्षे दीपप्रज्वालनेन कृतवन्त: ।
संगठनमन्त्री श्री गौरवशास्त्रिणा स्वसंस्कृतसम्भाषणे प्रोक्तं यत् संस्कृतम् अस्माकं राज्यस्य द्वितीयभाषा अस्ति । वयं मिलित्वा अस्य उत्थानाय व प्रसाराय प्रयत्नं कुर्म: । यस्मिन्विद्यालयेषु संस्कृतस्य कक्षा: विलुप्ता: तत्र पुनरुत्थानं स्यात् । संस्कृतभाषाया: प्रतिजनं सम्प्राप्ति: अस्माकं कृते सर्वोपरि अस्ति । रुड़कीनगरे विभिन्नस्थानेषु सम्भाव्यसंभाषणशिविरार्थं संगठनमन्त्रिणा कार्यक्रमसंयोजकस्य श्री नवलवर्यस्य च आचार्यविष्णुगौड़वर्येण सर्वेषां शिक्षकानां च मार्गदर्शनं तथा उत्साहवर्धनं कृतं ।
कार्यशालायां षट्केन्द्रेषु संस्कृतसम्भाषणं संचालयितुं समागतानां प्रशिक्षणार्थिनां कृते हरिद्वारजनपदशिक्षणप्रमुखेन, विष्णुदत्तगौड़द्वारा कार्यकर्तृणां कृते प्रशिक्षणं प्रदत्तं। नवलकिशोरपन्तद्वारा आगंतुकानम् अतिथीनां कार्यकर्तृणां च स्वागतं तथा धन्यवादं प्रकटितं । कार्यशालायां श्री भगवानवल्लभतिवारी, श्रीमती श्रद्धा हिंदू, दीपा, दिवाकर:, अनुराधा, महिमा आदय: उपस्थिता: आसन् ।