जगदीश डाभी
उत्तरप्रदेशसंस्कृतसंस्थानेन संचालिता २० दिवसीया संस्कृतभाषाशिक्षण कक्षाया: बौद्धिकसत्रस्य कार्यक्रमस्य शुभारंभ: ध्रुव कुमार तिवारी महोदयेन वैदिकमंगलाचरणं गीत्वा कृत:। अतिथिनां परिचय: कार्यशालाया: वृत्तकथनञ्च संस्थानस्य प्रशिक्षक: तथा सत्रसंयोजक: दीनदयालशुक्लमहोदयेन उक्त:। संस्थानस्य रूपरेखां व्यक्त कुर्वन् तेनोक्त: यत् संस्थानस्य स्थापना ३१लदिसम्बर १९७६ तमे वर्षे अभवत्, तावत् एव एतत् संस्थानं संस्कृत भाषां प्रति निरंतरं प्रयासरतं भूत्वा विभिन्न माध्यमै: संस्कृतवाग्व्यवहारकार्यशालया, आनलाइन संस्कृतभाषाशिक्षणेन तथा च अनेकै: सांस्कृतिक आयोजनै: संस्कृतभाषाया: विकासे निरंतर प्रयत्नशीलमस्ति।
प्रतिमासे ३ त: ४ सहस्र पर्यंतं छात्रा: अत्र संस्कृतभाषाया: शिक्षणं कुर्वन्ति। इतोऽपि उत्तरप्रदेशस्य ७५ जनपदेषु योगप्रशिक्षणकार्यशालाया: संचालनम् अपि प्रचलति । कार्यक्रमे मुख्यवक्तृ रूपेण समागत: संस्कृतभारत्या: कर्णपुरप्रांतस्य उपाध्यक्ष: नेहरूमहाविद्यालयस्य संस्कृतविभागाध्यक्ष: च श्री ओमप्रकाश शास्त्री महोदयेन आधुनिक समये संस्कृत भाषाया: उपादेयता विषये प्रकाशित:।
इतोऽपि संस्कृत भाषा भारतस्य आत्मा अस्ति, यदि भारतस्य विषये ज्ञातुम् इच्छति चेत् वयं संस्कृत भाषाया: शिक्षणम् अवश्यमेव कुर्यामहि, संस्कृतज्ञानेन विना भारतस्य विषये ज्ञातुं न शक्नुम: कस्यचित् लक्ष्यस्य प्राप्ति: संगठने स्थित्वा एव भवितुं अर्हति अत: सर्वान् संगठितं भूत्वा कार्यं कुर्यात, यथा वेदे अपि कथ्यते यत् “एकोऽहं बहु स्याम्” अस्मिन् कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रशिक्षणप्रमुख: सुधीष्ठ मिश्र महोदय:, निदेशक: विनय श्रीवास्तव:, प्र.अधिकारी डॉ. दिनेश मिश्र:, सर्वेक्षिका चंद्रकला शाक्या, प्रशिक्षण समन्वयक: धीरज मैठाणी महोदयानां सानिध्यं प्राप्य संस्कृतभाषाशिक्षण कार्यशालायां प्रतिभागगृहीता: प्रतिभागीभि: स्वीयम् अनुभवकथनम्, लघुकथा, संस्कृतगीतानां प्रस्तूय सर्वा: आनन्दिता: कृता:| कार्यक्रमस्य संचालनं संस्थानस्य प्रशिक्षिका डॉ. स्तुति गोस्वामी महोदयया कृतम्।
प्रशिक्षिका मीना कुमारी महोदयया धन्यवादज्ञापनं इतोऽपि शान्तिमन्त्र: अनीता वर्मा महोदयया कृत: । ऑनलाइन माध्यमेन संचालिता एतासु कक्षासु निरीक्षणं समन्वयका: दिव्यरंजन, राधाशर्मा नागेश महोदयेन च कृतम् | अस्मिन् अवसरे संस्थानस्य समस्त प्रशिक्षका: अधिकारिगण: प्रशिक्षुगण: च उपस्थितो आसन्।