जगदीश डाभी
लखनऊस्थ-उत्तरप्रदेशसंस्कृत संस्थानेन संचालितसंस्कृतभाषाशिक्षणकक्षान्तर्गतं बौद्धिकसत्रं २०२२ तमे वर्षे नवम्बरमासस्य १४ दिनाङ्के सायं ७-८ वादने आयोजितम् ।यत्र सत्रसंचालक: प्रशिक्षक: नूतनविष्णु: रेग्मी आसीत्।आदौ प्रशिक्षु: सूरजवाजपेयी वैदिकमंगलाचरणमकरोत्।अनघा टेकाले सरस्वतीवन्दनां कृतवती । सरला पारेकर स्वागतगीतं गीतवती। डा. भारती जटारिया ध्येयमन्त्रं पठितवती ।
तत: सत्रसंयोजक: आचार्य: दिवाकरमणि: त्रिपाठी (प्रशिक्षक:,यूपी-संस्कृत-संस्थानम्)स्वागतभाषणपुरस्सरं संस्थानस्य कार्याणां वृत्तं एवंच अतिथे: परिचयं प्रास्तौत्।तदनन्तरम् प्रशिक्षु: दक्षाडाभी संस्कृतगीतं श्रावितवती। तत्पश्चात् प्रशिक्षू दीपक: ,शारदा च कक्षाया: अनुभवमश्रावयताम्।सत्रे मुख्यवक्ता श्रीमद्भागवतकथावाचक: श्रीमान् डा.ओंकारनारायण दूबे (अवधप्रान्ते संस्कृतभारत्या : कार्यकर्ता) आसीत् ।
तदनु श्री: ओंकारमहोदय: उक्तवान् यत् भारतीयानां मूलम् संस्कृतमेवास्ति। संस्कृतभाषायां उपलब्धानि सर्वाणि शास्त्राणि भारतस्य वैभवं दर्शयन्ति। तेनोक्तं यत् धर्मशास्त्रेषु अस्माकं जीवनपद्धति: विद्यते । यथा पितु: अधिकार: पुत्रोपरि भवति तथैव संस्कृतमातु: अधिकार: अस्माकम् उपरि अस्ति।संस्कृतसम्भाषणं कर्तुं उपायान् बोधितवान्।संस्कृतपठनस्य लाभान् उक्तवान् । देशस्य विश्वस्य च कृते अस्माकं दायित्वमपि तोनोक्तम्।कार्यक्रमे प्राय: ७५जना: उपस्थिता:।
प्रशिक्षुभि: सह तत्र निदेशक: विनयकुमार: श्रीवास्तवः,योजनासर्वेक्षक: डॉ जगदानन्दझा, प्रशिक्षणप्रमुखः श्री: सुधिष्ठकुमारमिश्र:,संस्थानस्याधिकारीश्री: चन्द्रकला शाक्या,प्रशिक्षणसमन्वयका:धीरजमैठाणी नागेशदुबे,दिव्यरञ्जन: राधा शर्मा चेत्यादय: उपस्थिता: आसन्। प्रशिक्षक: लक्ष्मीकान्तपाठक:धन्यवादज्ञापनं कृतवान्।अन्ते प्रशिक्षिका पूजावाजपेयी शान्तिमन्त्रेण सत्रस्य समापनमकरोत् । संस्कृतभाषाशिक्षणकक्ष्ययो: (द्वयो: स्तरयो:)कृते निःशुल्कं पञ्जीकरण-लिंक् https://sanskritsambhashan.com