(संजीवश्रीवास्तव:)
लखनऊ । लखनऊस्थ-उत्तरप्रदेशसंस्कृत संस्थानेन संचालितसंस्कृतभाषाशिक्षणकक्षान्तर्गतं बौद्धिकसत्रं २०२२ तमे वर्षे नवम्बरमासस्य १४ दिनाङ्के सायं ८-९ वादने आयोजितम् ।यत्र सत्रसंचालक: प्रशिक्षक: सत्यम् मिश्र: आसीत्।तत्र प्रशिक्षु: नन्दिनी मंगलाचरणमकरोत्। डा. भारती जटारिया ध्येयमन्त्रं पठितवती ।तत: सत्रसंयोजक: श्री: नागेश: दुबे महोदय:(प्रशिक्षणसमन्वयक:यूपी-संस्कृत-संस्थानम्)स्वागतभाषणपुरस्सरं संस्थानस्य कार्याणां वृत्तं प्रास्तौत्।तदनन्तरम् प्रशिक्षक: मनीषमिश्र: अतिथिपरिचयं कारितवान् । तदनन्तरम् प्रशिक्षव: कक्षाया: अनुभवमश्रावयन्।सत्रे मुख्यवक्ता श्रीमान् संजीवश्रीवास्तव: (पंजाबप्रान्ते संस्कृतभारत्या : प्रान्तमन्त्री) आसीत् ।
स: महोदय: स्ववक्तव्ये संस्कृतस्य महत्वं प्रतिपादयन् सर्वान् संस्कृतं पठितुं प्रेरितवान्। संस्कृतभाषया भारतस्य वैभवम् इतोऽपि वर्धयितुं शक्नुम:। तेनोक्तं समाजे ये दोषा: सन्ति तेषाम् अपसारणं एवं च तत्र ऐक्यभावमानेतुं संस्कृतमेव मुख्यं कारणं भवितुमर्हति।संस्कृतपठनेन जीवने किं परिवर्तनं भवति तदपि दृष्टान्तरीत्या स: उक्तवान् । कार्यक्रमे प्राय: ९० जना: उपस्थिता:।
प्रशिक्षुभि: सह तत्र निदेशक: विनयकुमार: श्रीवास्तवः,योजनासर्वेक्षक: डॉ जगदानन्दझा, प्रशिक्षणप्रमुखः श्री: सुधिष्ठकुमारमिश्र:,संस्थानस्याधिकारीश्री: चन्द्रकला शाक्या,प्रशिक्षणसमन्वयकेषु धीरजमैठाणी नागेशदुबे,दिव्यरञ्जन: राधा शर्मा चेत्यादय: उपस्थिता: आसन्। प्रशिक्षकेषु अनिलगौतम:, रंजिततिवारी,शशिकांत:,अन्ये च समुपस्थिता: आसन्।अन्ते संस्थानस्य प्रशिक्षक: नूतनविष्णु: रेग्मी धन्यवादज्ञापनं कृतवान्। इत्थं शान्तिमन्त्रेण सत्रस्य समापनमभवत् ।संस्कृतभाषाशिक्षणकक्ष्ययो: (द्वयो: स्तरयो:)कृते निःशुल्कं पञ्जीकरण-लिंक् https://sanskritsambhashan.com