प्राचीनकाले भारतस्य जनभाषा संस्कृतम् आसीत् इति सर्वे जनाः विदाङ्कुर्वन्ति। संस्कृतस्य महत्त्वं वर्तमानपरिप्रेक्ष्ये अधिकम् अस्ति। अमेरिकायाः सर्वोकृष्ट अनुसंधान संस्था “नासा” अस्ति। तस्याः अभिमतम् अस्ति यद् आंतरिक्षे संवादं प्रेषयितुं संस्कृतमेव उपयुक्तम् अस्ति। यतो हि, यदा “नासा” इति संस्थायाः वैज्ञानिकाः अन्यभाषायां संवादं प्रेषयन्ति तदा संवादान् नैव सम्यकतया आन्तरिक्षमुपगच्छन्ति। किन्तु संस्कृतभाषायाः इदमेव वैशिष्ट्यम् अस्ति, यत् संवादानाम् विपरीत अवस्थायामपि न कोऽपि भेदो भवति एतदर्थं वैज्ञानिकाः संस्कृतभाषायामेव संवादान् प्रेषयितुं समर्थाः संजाताः। इदानीं केचन जनाः स्वीकुर्वन्ति यत् संस्कृतभाषा केवलं पौरोहित्य, कर्मकाण्डादि, नित्यनैमित्तिक, कर्मणान् कृते एव अस्ति। किन्तु अयं सिद्धान्तः तर्कहीनः वर्तते। संस्कृते ज्ञानस्य सर्वाः विधाः समुपलब्धाः सन्ति। इति वैदेशिकाः विद्वांसः अपि स्वीकुर्वन्ति। अस्माकं परमकर्तव्यमस्ति यद् भारतीयसंस्कृतेः रक्षणायः भारतस्य प्रतिष्ठां स्थापनाय च संस्कृतभाषायाः अध्ययनम् अध्यापनम् च नितराम् अस्माभिः कर्तव्यम्।
लेखिका -श्रीमती अक्की देवी वर्मा
संस्कृत विभागाध्यक्षा
एन के बागडोदिया विद्यालय
द्वारका,नव देहली