
वार्ताहर: – जगदीश डाभी
उत्तर प्रदेश । केन्द्रीयसंस्कृतविश्वविद्यालयस्य सञ्चाल्यमानासु योजनासु विशिष्टा योजना इयम् अनौपचारिकसंस्कृतशिक्षण योजना। अस्या: योजनाया: निदेशकवर्या: केन्द्रीय संस्कृत विश्वविद्यालयस्य नवदेहल्या: मुक्तस्वाध्यायपीठस्य आचार्या: अस्या: योजनाया: सूत्रधारा: विशिष्टातिथिरूपेण online माध्यमेन समुपस्थिता आसन्। सारस्वतातिथिरूपेण online माध्यमेन विराजमाना: श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य पूर्व कुलपति: काशीहिन्दूविश्वविद्यालयस्य आचार्या: प्रो गोपबन्धुमिश्रवर्या: समुपस्थिता आसन् ।
ते अस्मान् संस्कृतभाषाया: जागरूकताया: कृते प्रबोधितवन्त: यत् संस्कृतभाषा सरलाभाषा संस्कृत भाषा मुखे भवेत् इति करणीयम्। मुख्यातिथिरूपेण विराजमाना: सर्वोदयस्नातकोत्तरमहाविद्यालयस्य प्राचार्या: डा वन्दनापाण्डेया: महोदया: समुपस्थिता: आसन्। तासां मार्गदर्शनं प्राप्य वयं धन्या: ता: संस्कृतभाषाया: प्राचीनताविषये वैज्ञानिकताविषये प्रबोधितवत्य:। अध्यक्षारूपेण विराजमाना: सन्तगणिनाथराजकीयस्नातकोत्तरमहाविद्यालयस्य प्राचार्यामहोदया: डा हूर तलअत महोदया: समुपस्थिता: आसन्। तासां मार्गदर्शनं वयं प्राप्तवन्त:। सन्तगणिनाथाराजकीयस्नातकोत्तरमहाविद्यालयस्य संस्कृतविभागाध्यक्षा: अधिमञ्चं विराजमानानाम् अतिथिनां परिचयं स्वागतं अभिनन्दनं च कृतवन्त:।
सन्तगणिनाथाराजकीयस्नातकोत्तरमहाविद्यालयस्य आचार्या: संस्कृतभाषाया: सक्रियकार्यकर्तार: केन्द्राधिकारिमहोदया: डा चन्द्रकान्तदत्तशुक्लवर्या: धन्यवादज्ञापनं कृतवन्त: तथा च अनौपचारिकसंस्कृतशिक्षण योजनया: विषये प्रबोधितवन्त:। केन्द्रशिक्षिका: डा नेहा मिश्रा महोदया: मञ्चसञ्चालनं कृतवत्य:।